বুধ কবচম্
Navagraha · প্রথাগত ভক্তিপাঠ
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य, कश्यप ऋषिः, अनुष्टुप् छंदः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ।
अथ बुध कवचम् बुधस्तु पुस्तकधरः कुंकुमस्य समद्युतिः । पीतांबरधरः पातु पीतमाल्यानुलेपनः ॥ 1 ॥
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा । नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥ 2 ॥
घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम । कंठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ॥ 3 ॥
वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः । नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥ 4 ॥
जानुनी रौहिणेयश्च पातु जंघे??उखिलप्रदः । पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः ॥ 5 ॥
अथ फलश्रुतिः एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् । सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ॥ 6 ॥
आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् । यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ 7 ॥
॥ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णम् ॥
বুধ কবচম্ সম্পর্কে
The Budha Kavacham is a protective "armour" prayer to Budha, the planet Mercury, with the sage Kashyapa as its seer. Its first verse pictures Budha holding a book, of saffron hue, in yellow robes with yellow garlands and sandal paste, and asks him to protect; the kavacha then asks him to guard each part of the body.
উৎস: Brahmavaivarta Purana, as its colophon states
কখন পাঠ করবেন: On Wednesdays, in Navagraha worship, and during Budha graha shanti.
আপনি কি জানেন?
- Its colophon places it in the Brahmavaivarta Purana.
- Budha is associated with intellect, speech, learning and trade, which is why he is pictured holding a book.
প্রায়শই জিজ্ঞাসিত প্রশ্ন
Who is the seer of the Budha Kavacham?
The sage Kashyapa, as its viniyoga states.
How is Budha pictured?
Holding a book, in yellow robes and garlands.
Where is it from?
The Brahmavaivarta Purana, as its colophon states.
উপাসনা ও অধ্যয়নের জন্য প্রদত্ত, ভবিষ্যদ্বাণী হিসেবে নয়। অবাণিজ্যিক।
আরও ভক্তিপাঠ