গণেশ মহিম্না স্তোত্রম্
Ganesha · প্রথাগত ভক্তিপাঠ
अनिर्वाच्यं रूपं स्तवन निकरो यत्र गलितः तथा वक्ष्ये स्तोत्रं प्रथम पुरुषस्यात्र महतः । यतो जातं विश्वस्थितिमपि सदा यत्र विलयः सकीदृग्गीर्वाणः सुनिगम नुतः श्रीगणपतिः ॥ 1 ॥
गकारो हेरंबः सगुण इति पुं निर्गुणमयो द्विधाप्येकोजातः प्रकृति पुरुषो ब्रह्म हि गणः । स चेशश्चोत्पत्ति स्थिति लय करोयं प्रमथको यतोभूतं भव्यं भवति पतिरीशो गणपतिः ॥ 2 ॥
गकारः कंठोर्ध्वं गजमुखसमो मर्त्यसदृशो णकारः कंठाधो जठर सदृशाकार इति च । अधोभावः कट्यां चरण इति हीशोस्य च तमः विभातीत्थं नाम त्रिभुवन समं भू र्भुव स्सुवः ॥ 3 ॥
गणाध्यक्षो ज्येष्ठः कपिल अपरो मंगलनिधिः दयालुर्हेरंबो वरद इति चिंतामणि रजः । वरानीशो ढुंढिर्गजवदन नामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ॥ 4 ॥
महेशोयं विष्णुः स कवि रविरिंदुः कमलजः क्षिति स्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः । कुजस्तारः शुक्रो पुरुरुडु बुधोगुच्च धनदो यमः पाशी काव्यः शनिरखिल रूपो गणपतिः ॥5 ॥
मुखं वह्निः पादौ हरिरसि विधात प्रजननं रविर्नेत्रे चंद्रो हृदय मपि कामोस्य मदन । करौ शुक्रः कट्यामवनिरुदरं भाति दशनं गणेशस्यासन् वै क्रतुमय वपु श्चैव सकलम् ॥ 6 ॥
सिते भाद्रे मासे प्रतिशरदि मध्याह्न समये मृदो मूर्तिं कृत्वा गणपतितिथौ ढुंढि सदृशीम् । समर्चत्युत्साहः प्रभवति महान् सर्वसदने विलोक्यानंदस्तां प्रभवति नृणां विस्मय इति ॥7 ॥
गणेशदेवस्य माहात्म्यमेतद्यः श्रावयेद्वापि पठेच्च तस्य । क्लेशा लयं यांति लभेच्च शीघ्रं श्रीपुत्त्र विद्यार्थि गृहं च मुक्तिम् ॥ 8 ॥
॥ इति श्री गणेश महिम्न स्तोत्रम् ॥
গণেশ মহিম্না স্তোত্রম্ সম্পর্কে
The Ganesha Mahimna Stotram is a philosophical hymn on the greatness of Ganesha. It opens: his form cannot be described, and all praise falls short, yet I will praise this first and great Person, from whom the world is born, in whom it rests and into whom it dissolves. It explains the name Ganapati syllable by syllable: "ga" is Heramba with form, "na" the formless; together they are nature and spirit, Brahman itself; and it says that "ga" stands for the elephant head above the neck and "na" for the human body below.
কখন পাঠ করবেন: On Wednesdays, Sankashti Chaturthi and Ganesh Chaturthi, and in Ganapatya worship.
আপনি কি জানেন?
- Its name echoes the famous Shiva Mahimna Stotram, and it takes a similar philosophical approach.
- It presents Ganesha as the Supreme Brahman, the creator, sustainer and destroyer, as in the Ganapati Atharvashirsha.
প্রায়শই জিজ্ঞাসিত প্রশ্ন
What does "mahimna" mean?
"Of the greatness", a hymn on the greatness of Ganesha.
What do "ga" and "na" stand for?
The Lord with form and without form; head and body.
When is it recited?
On Wednesdays and Chaturthi days.
উপাসনা ও অধ্যয়নের জন্য প্রদত্ত, ভবিষ্যদ্বাণী হিসেবে নয়। অবাণিজ্যিক।
আরও ভক্তিপাঠ