MuhurtaNow

শ্রী রামাষ্টোত্তর শত নাম স্তোত্রম্

Ashtottara Sata Nama · প্রথাগত ভক্তিপাঠ

॥ श्री राम अष्टोत्तर शतनामस्तोत्रम् ॥

श्रीरामो रामभद्रश्च रामचंद्रश्च शाश्वतः । राजीवलोचनः श्रीमान् राजेंद्रो रघुपुंगवः ॥ 1 ॥

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः । विश्वामित्रप्रियो दांतः शरणत्राणतत्परः ॥ 2 ॥

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः । सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: ॥ 3 ॥

कौसल्येयः खरध्वंसी विराधवधपंडितः । विभीषणपरित्राता हरकोदंडखंडनः ॥ 4 ॥

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः । जामदग्व्यमहादर्पदलनस्ताटकांतकः ॥ 5 ॥

वेदांतसारो वेदात्मा भवरोगस्य भेषजम् । दूषणत्रिशिरोहंता त्रिमूर्तिस्त्रिगुणात्मकः ॥ 6 ॥

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः । त्रिलोकरक्षको धन्वी दंडकारण्यकर्षणः ॥ 7 ॥

अहल्याशापशमनः पितृभक्तो वरप्रदः । जितेंद्रियो जितक्रोधो जितावद्यो जगद्गुरुः ॥ 8 ॥

ऋक्षवानरसंघाती चित्रकूटसमाश्रयः । जयंतत्राणवरदः सुमित्रापुत्रसेवितः ॥ 9 ॥

सर्वदेवाधिदेवश्चमृतवानरजीवनः । मायामारीचहंता च महादेवो महाभुजः ॥ 10 ॥

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः । महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥ 11 ॥

सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः । आदिपुरुषः परमपुरुषो महापुरुष एव च ॥ 12 ॥

पुण्योदयो दयासारः पुराणपुरुषोत्तमः । स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥ 13 ॥

अनंतगुणगंभीरो धीरोदात्तगुणोत्तमः । मायामानुषचारित्रो महादेवादिपूजितः ॥ 14 ॥

सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः । श्यामांगः सुंदरः शूरः पीतवासा धनुर्धरः ॥ 15 ॥

सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः । विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ॥ 16 ॥

परमात्मा परं ब्रह्म सच्चिदानंदविग्रहः । परंज्योतिः परंधाम पराकाशः परात्परः । परेशः पारगः पारः सर्वदेवात्मकः परः ॥ 17 ॥

श्रीरामाष्टोत्तरशतं भवतापनिवारकम् । संपत्करं त्रिसंध्यासु पठतां भक्तिपूर्वकम् ॥ 18 ॥

रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीतायाःपतये नमः ॥ 19 ॥

॥ इति श्रीस्कंदपुऱाणे श्रीराम अष्टोत्तर शतनामस्तोत्रम् ॥

শ্রী রামাষ্টোত্তর শত নাম স্তোত্রম্ সম্পর্কে

This Sri Rama Ashtottara Shatanama Stotram sets 108 names of Lord Rama in verse, from the Skanda Purana. Its first verse calls him Sri Rama, Ramabhadra, Ramachandra, the eternal, lotus-eyed, glorious, king of kings and best of the Raghus; the next verses praise him as beloved of Janaki, the victorious, conqueror of foes, dear to Vishvamitra, refuge of those who surrender, slayer of Vali, true in word and deed, ever the refuge of Hanuman, son of Kausalya, destroyer of Khara, protector of Vibhishana and breaker of Shiva's bow.

উৎস: Skanda Purana, as its colophon states

কখন পাঠ করবেন: On Sri Rama Navami, on Thursdays, and in Rama archana.

আপনি কি জানেন?

  • The same 108 names are offered one by one as the Sri Rama Ashtottara Shatanamavali in archana.
  • The names follow Rama's story, from Vishvamitra's yajna and the breaking of the bow to the war in Lanka.

প্রায়শই জিজ্ঞাসিত প্রশ্ন

What does "Ramabhadra" mean?

"Auspicious Rama", one of his first names here.

Whose bow did Rama break?

Shiva's bow, at Sita's svayamvara.

Where is this stotram from?

The Skanda Purana, as its colophon states.

উপাসনা ও অধ্যয়নের জন্য প্রদত্ত, ভবিষ্যদ্বাণী হিসেবে নয়। অবাণিজ্যিক।