MuhurtaNow

मुंडक उपनिषद् - द्वितीय मुंडक, द्वितीय कांडः

Vedic · पारंपरिक भक्ति पाठ

॥ द्वितीय मुंडके द्वितीयः खंडः ॥

आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत् समर्पितम् । एजत्प्राणन्निमिषच्च यदेतज्जानथ सदसद्वरेण्यं परं-विँज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ 1॥

यदर्चिमद्यदणुभ्योऽणु च यस्मि~ल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ 2॥

धनुर् गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासा निशितं संधयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ 3॥

प्रणवो धनुः शारो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ 4॥

यस्मिन् द्यौः पृथिवी चांतरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुंचथामृतस्यैष सेतुः ॥ 5॥

अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽंतश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ 6॥

यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥

मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । तद् विज्ञानेन परिपश्यंति धीरा आनंदरूपममृतं-यँद् विभाति ॥ 7॥

भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः । क्षीयंते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ 8॥

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषं ज्योतिस्तद् यदात्मविदो विदुः ॥ 9॥

न तत्र सूर्यो भाति न चंद्रतारकं नेमा विद्युतो भांति कुतोऽयमग्निः । तमेव भांतमनुभाति सर्वं तस्य भासा सर्वमिदं-विँभाति ॥ 10॥

ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं-विँश्वमिदं-वँरिष्ठम् ॥ 11॥

॥ इति मुंडकोपनिषदि द्वितीयमुंडके द्वितीयः खंडः ॥

मुंडक उपनिषद् - द्वितीय मुंडक, द्वितीय कांडः के बारे में

This is the second section of the second Mundaka of the Mundaka Upanishad. It describes Brahman as manifest yet hidden, moving in the cave of the heart, the great abode in which all that moves, breathes and blinks is set. It gives the famous image of the bow: "Om is the bow, the self is the arrow, Brahman is the target; it is to be struck by one who is undistracted, and one should become one with it, like the arrow." When the Supreme is seen, the knot of the heart is cut, all doubts are dispelled and karma wears away. It ends with the verse "There the sun does not shine, nor the moon and stars."

स्रोत: Atharva Veda, Mundaka Upanishad 2.2

कब पढ़ें: In Upanishad study and Vedic chanting.

क्या आप जानते हैं?

  • Verse 4, "Pranavo dhanuh sharo hyatma", is one of the best-known images of meditation on Om.
  • Verse 8, "Bhidyate hridaya granthih", on the cutting of the knot of the heart, is often quoted in Vedanta.

अक्सर पूछे जाने वाले प्रश्न

What is the bow in the image of verse 4?

Om; the self is the arrow and Brahman the target.

What happens when the Supreme is seen?

The knot of the heart is cut and doubts are dispelled.

Which Veda does this Upanishad belong to?

The Atharva Veda.

उपासना और अध्ययन के लिए प्रस्तुत, भविष्यवाणी के रूप में नहीं। गैर-व्यावसायिक।