ಬೃಹಸ್ಪತಿ ಅಷ್ಟೋತ್ತರ ಶತ ನಾಮ ಸ್ತೋತ್ರಂ
Navagraha · ಸಾಂಪ್ರದಾಯಿಕ ಭಕ್ತಿ ಪಠ್ಯ
गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः । गुणी गुणवतां श्रेष्ठो गुरूणां गुरुरव्ययः ॥ 1 ॥
जेता जयंतो जयदो जीवोऽनंतो जयावहः । आंगीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥ 2 ॥
वाचस्पतिर्वशी वश्यो वरिष्ठो वाग्विचक्षणः । चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखंडिजः ॥ 3 ॥
बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः । सुराचार्यः सुराराध्यः सुरकार्यहितंकरः ॥ 4 ॥
गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः । धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥ 5 ॥
धनुर्धरो दैत्यहंता दयासारो दयाकरः । दारिद्र्यनाशको धन्यो दक्षिणायनसंभवः ॥ 6 ॥
धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः । आंगीरसाब्जसंजातः आंगीरसकुलोद्भवः ॥ 7 ॥
सिंधुदेशाधिपो धीमान् स्वर्णवर्णश्चतुर्भुजः । हेमांगदो हेमवपुर्हेमभूषणभूषितः ॥ 8 ॥
पुष्यनाथः पुष्यरागमणिमंडलमंडितः । काशपुष्पसमानाभः कलिदोषनिवारकः ॥ 9 ॥
इंद्रादिदेवोदेवेशो देवताभीष्टदायकः । असमानबलः सत्त्वगुणसंपद्विभासुरः ॥ 10 ॥
भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः । धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥ 11 ॥
सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः । सर्वपापप्रशमनः स्वमतानुगतामरः ॥ 12 ॥
ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः । सदानंदः सत्यसंधः सत्यसंकल्पमानसः ॥ 13 ॥
सर्वागमज्ञः सर्वज्ञः सर्ववेदांतविद्वरः । ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥ 14 ॥
समानाधिकनिर्मुक्तः सर्वलोकवशंवदः । ससुरासुरगंधर्ववंदितः सत्यभाषणः ॥ 15 ॥
नमः सुरेंद्रवंद्याय देवाचार्याय ते नमः । नमस्तेऽनंतसामर्थ्य वेदसिद्धांतपारगः ॥ 16 ॥
सदानंद नमस्तेऽस्तु नमः पीडाहराय च । नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥ 17 ॥
नमोऽद्वितीयरूपाय लंबकूर्चाय ते नमः । नमः प्रहृष्टनेत्राय विप्राणां पतये नमः ॥ 18 ॥
नमो भार्गवशिष्याय विपन्नहितकारिणे । नमस्ते सुरसैन्यानां विपत्तित्राणहेतवे ॥ 19 ॥
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः । लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥ 20 ॥
सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः । अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता जगत्पिता ॥ 21 ॥
विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः । भूर्भुवोधनदाता च भर्ताजीवो महाबलः ॥ 22 ॥
बृहस्पतिः काश्यपेयो दयावान् शुभलक्षणः । अभीष्टफलदः श्रीमान् शुभग्रह नमोऽस्तु ते ॥ 23 ॥
बृहस्पतिः सुराचार्यो देवासुरसुपूजितः । आचार्योदानवारिश्च सुरमंत्री पुरोहितः ॥ 24 ॥
कालज्ञः कालृग्वेत्ता चित्तगश्च प्रजापतिः । विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥ 25 ॥
इति श्री बृहस्पति अष्टोत्तरशतनाम स्तोत्रम् ।
ಬೃಹಸ್ಪತಿ ಅಷ್ಟೋತ್ತರ ಶತ ನಾಮ ಸ್ತೋತ್ರಂ ಬಗ್ಗೆ
ಬೃಹಸ್ಪತಿ ಅಷ್ಟೋತ್ತರ ಶತನಾಮ ಸ್ತೋತ್ರ ಗುರು ಗ್ರಹ ಮತ್ತು ದೇವಗುರು ಬೃಹಸ್ಪತಿಯ ೧೦೮ ನಾಮಗಳನ್ನು ಶ್ಲೋಕರೂಪದಲ್ಲಿ ನೀಡುತ್ತದೆ. "ಗುರುರ್ಗುಣವರೋ ಗೋಪ್ತಾ" ಎಂದು ಆರಂಭ: ಗುರು, ಗುಣವರ, ಗೋಪ್ತ, ಗೋಚರ, ಗೋಪತಿಪ್ರಿಯ, ಗುಣಿ, ಗುಣವಂತರಲ್ಲಿ ಶ್ರೇಷ್ಠ, ಗುರುಗಳ ಗುರು, ಅವ್ಯಯ; ಜೇತ, ಜಯಂತ, ಜಯದ, ಜೀವ, ಅನಂತ, ಜಯಾವಹ, ಆಂಗೀರಸ, ಅಧ್ವರಾಸಕ್ತ.
ಯಾವಾಗ ಪಠಿಸಬೇಕು: ಗುರುವಾರಗಳಲ್ಲಿ, ನವಗ್ರಹ ಪೂಜೆಯಲ್ಲಿ, ಮತ್ತು ಗುರುಗ್ರಹ ಶಾಂತಿಯಲ್ಲಿ.
ನಿಮಗೆ ಗೊತ್ತೇ?
- ಬೃಹಸ್ಪತಿಯನ್ನು ಜೀವ, "ಜೀವಂತನು", ಮತ್ತು ಅಂಗೀರಸ ಋಷಿಯ ಮಗನಾಗಿ ಆಂಗೀರಸ ಎನ್ನಲಾಗುತ್ತದೆ.
- ಅವನು ದೇವತೆಗಳ ಪುರೋಹಿತ, ಮಂತ್ರಿ, ವಾಕ್ ಮತ್ತು ಜ್ಞಾನದ ಒಡೆಯ.
ಪದೇ ಪದೇ ಕೇಳುವ ಪ್ರಶ್ನೆಗಳು
ಬೃಹಸ್ಪತಿ ಯಾರು?
ಗುರು ಗ್ರಹ ಮತ್ತು ದೇವತೆಗಳ ಗುರು.
ಸ್ತೋತ್ರ ಹೇಗೆ ಆರಂಭವಾಗುತ್ತದೆ?
"ಗುರುರ್ಗುಣವರೋ ಗೋಪ್ತಾ": ಗುರು, ಗುಣಶ್ರೇಷ್ಠ, ರಕ್ಷಕ.
ಇದನ್ನು ಯಾವಾಗ ಪಠಿಸುತ್ತಾರೆ?
ಗುರುವಾರಗಳಲ್ಲಿ ಮತ್ತು ನವಗ್ರಹ ಪೂಜೆಯಲ್ಲಿ.
ಆರಾಧನೆ ಮತ್ತು ಅಧ್ಯಯನಕ್ಕಾಗಿ ನೀಡಲಾಗಿದೆ, ಭವಿಷ್ಯವಾಣಿಯಾಗಿ ಅಲ್ಲ. ವಾಣಿಜ್ಯೇತರ.
ಇನ್ನಷ್ಟು ಭಕ್ತಿ ಪಠ್ಯಗಳು