MuhurtaNow

ಬುಧ ಅಷ್ಟೋತ್ತರ ಶತ ನಾಮಾವಳಿ

Navagraha · ಸಾಂಪ್ರದಾಯಿಕ ಭಕ್ತಿ ಪಠ್ಯ

ॐ बुधाय नमः । ॐ बुधार्चिताय नमः । ॐ सौम्याय नमः । ॐ सौम्यचित्ताय नमः । ॐ शुभप्रदाय नमः । ॐ दृढव्रताय नमः । ॐ दृढफलाय नमः । ॐ श्रुतिजालप्रबोधकाय नमः । ॐ सत्यवासाय नमः । ॐ सत्यवचसे नमः ॥ 10 ॥

ॐ श्रेयसां पतये नमः । ॐ अव्ययाय नमः । ॐ सोमजाय नमः । ॐ सुखदाय नमः । ॐ श्रीमते नमः । ॐ सोमवंशप्रदीपकाय नमः । ॐ वेदविदे नमः । ॐ वेदतत्त्वज्ञाय नमः । ॐ वेदांतज्ञानभास्वराय नमः । ॐ विद्याविचक्षणाय नमः ॥ 20 ॥

ॐ विभवे नमः । ॐ विद्वत्प्रीतिकराय नमः । ॐ ऋजवे नमः । ॐ विश्वानुकूलसंचाराय नमः । ॐ विशेषविनयान्विताय नमः । ॐ विविधागमसारज्ञाय नमः । ॐ वीर्यवते नमः । ॐ विगतज्वराय नमः । ॐ त्रिवर्गफलदाय नमः । ॐ अनंताय नमः ॥ 30 ॥

ॐ त्रिदशाधिपपूजिताय नमः । ॐ बुद्धिमते नमः । ॐ बहुशास्त्रज्ञाय नमः । ॐ बलिने नमः । ॐ बंधविमोचकाय नमः । ॐ वक्रातिवक्रगमनाय नमः । ॐ वासवाय नमः । ॐ वसुधाधिपाय नमः । ॐ प्रसन्नवदनाय नमः । ॐ वंद्याय नमः ॥ 40 ॥

ॐ वरेण्याय नमः । ॐ वाग्विलक्षणाय नमः । ॐ सत्यवते नमः । ॐ सत्यसंकल्पाय नमः । ॐ सत्यबंधवे नमः । ॐ सदादराय नमः । ॐ सर्वरोगप्रशमनाय नमः । ॐ सर्वमृत्युनिवारकाय नमः । ॐ वाणिज्यनिपुणाय नमः । ॐ वश्याय नमः ॥ 50 ॥

ॐ वातांगाय नमः । ॐ वातरोगहृते नमः । ॐ स्थूलाय नमः । ॐ स्थैर्यगुणाध्यक्षाय नमः । ॐ स्थूलसूक्ष्मादिकारणाय नमः । ॐ अप्रकाशाय नमः । ॐ प्रकाशात्मने नमः । ॐ घनाय नमः । ॐ गगनभूषणाय नमः । ॐ विधिस्तुत्याय नमः ॥ 60 ॥

ॐ विशालाक्षाय नमः । ॐ विद्वज्जनमनोहराय नमः । ॐ चारुशीलाय नमः । ॐ स्वप्रकाशाय नमः । ॐ चपलाय नमः । ॐ जितेंद्रियाय नमः । ॐ उदङ्मुखाय नमः । ॐ मखासक्ताय नमः । ॐ मगधाधिपतये नमः । ॐ हरये नमः ॥ 70

ॐ सौम्यवत्सरसंजाताय नमः । ॐ सोमप्रियकराय नमः । ॐ सुखिने नमः । ॐ सिंहाधिरूढाय नमः । ॐ सर्वज्ञाय नमः । ॐ शिखिवर्णाय नमः । ॐ शिवंकराय नमः । ॐ पीतांबराय नमः । ॐ पीतवपुषे नमः । ॐ पीतच्छत्रध्वजांकिताय नमः ॥ 80 ॥

ॐ खड्गचर्मधराय नमः । ॐ कार्यकर्त्रे नमः । ॐ कलुषहारकाय नमः । ॐ आत्रेयगोत्रजाय नमः । ॐ अत्यंतविनयाय नमः । ॐ विश्वपावनाय नमः । ॐ चांपेयपुष्पसंकाशाय नमः । ॐ चारणाय नमः । ॐ चारुभूषणाय नमः । ॐ वीतरागाय नमः ॥ 90 ॥

ॐ वीतभयाय नमः । ॐ विशुद्धकनकप्रभाय नमः । ॐ बंधुप्रियाय नमः । ॐ बंधमुक्ताय नमः । ॐ बाणमंडलसंश्रिताय नमः । ॐ अर्केशानप्रदेशस्थाय नमः । ॐ तर्कशास्त्रविशारदाय नमः । ॐ प्रशांताय नमः । ॐ प्रीतिसंयुक्ताय नमः । ॐ प्रियकृते नमः ॥ 100 ॥

ॐ प्रियभाषणाय नमः । ॐ मेधाविने नमः । ॐ माधवसक्ताय नमः । ॐ मिथुनाधिपतये नमः । ॐ सुधिये नमः । ॐ कन्याराशिप्रियाय नमः । ॐ कामप्रदाय नमः । ॐ घनफलाश्रयाय नमः ॥ 108 ॥

ಬುಧ ಅಷ್ಟೋತ್ತರ ಶತ ನಾಮಾವಳಿ ಬಗ್ಗೆ

ಬುಧ ಅಷ್ಟೋತ್ತರ ಶತನಾಮಾವಳಿ ಬುಧ ಗ್ರಹದ ೧೦೮ ನಾಮಗಳನ್ನು "ಓಂ ... ನಮಃ" ಎಂದು ಅರ್ಪಿಸುತ್ತದೆ. ಬುಧ, ಬುಧಾರ್ಚಿತ, ಸೌಮ್ಯ, ಸೌಮ್ಯಚಿತ್ತ, ಶುಭಪ್ರದ, ದೃಢವ್ರತ ಎಂದು ಆರಂಭವಾಗಿ, ಸೋಮಜ, ಪ್ರಿಯಭಾಷಣ, ಮೇಧಾವಿ, ಮಾಧವಾಸಕ್ತ, ಮಿಥುನಾಧಿಪತಿ, ಕನ್ಯಾರಾಶಿಪ್ರಿಯ ಎಂದು ಸ್ತುತಿಸುತ್ತದೆ.

ಯಾವಾಗ ಪಠಿಸಬೇಕು: ಬುಧವಾರಗಳಲ್ಲಿ, ನವಗ್ರಹ ಪೂಜೆಯಲ್ಲಿ, ಮತ್ತು ಬುಧಗ್ರಹ ಶಾಂತಿಯಲ್ಲಿ.

ನಿಮಗೆ ಗೊತ್ತೇ?

  • ಎರಡು ನಾಮಗಳು ಹೇಳುವಂತೆ ಬುಧ ಮಿಥುನ ಮತ್ತು ಕನ್ಯಾ ರಾಶಿಗಳ ಅಧಿಪತಿ.
  • ಹಸಿರು ವಸ್ತ್ರ, ಹೆಸರುಕಾಳು ಮತ್ತು ಪಚ್ಚೆ ಸಂಪ್ರದಾಯದಂತೆ ಬುಧನೊಡನೆ ಸಂಬಂಧಿಸಿವೆ.

ಪದೇ ಪದೇ ಕೇಳುವ ಪ್ರಶ್ನೆಗಳು

ಬುಧ ಯಾರು?

ಚಂದ್ರನ ಮಗ, ಬುಧ ಗ್ರಹ.

ಅವನು ಯಾವ ರಾಶಿಗಳ ಅಧಿಪತಿ?

ಮಿಥುನ ಮತ್ತು ಕನ್ಯಾ.

ನಾಮಾವಳಿಯನ್ನು ಯಾವಾಗ ಜಪಿಸುತ್ತಾರೆ?

ಬುಧವಾರಗಳಲ್ಲಿ ಮತ್ತು ನವಗ್ರಹ ಪೂಜೆಯಲ್ಲಿ.

ಆರಾಧನೆ ಮತ್ತು ಅಧ್ಯಯನಕ್ಕಾಗಿ ನೀಡಲಾಗಿದೆ, ಭವಿಷ್ಯವಾಣಿಯಾಗಿ ಅಲ್ಲ. ವಾಣಿಜ್ಯೇತರ.