MuhurtaNow

ಶಿವ ಸಹಸ್ರ ನಾಮ ಸ್ತೋತ್ರಂ

Shiva · ಸಾಂಪ್ರದಾಯಿಕ ಭಕ್ತಿ ಪಠ್ಯ

पूर्वपीठिका ॥

वासुदेव उवाच

ततः स प्रयतो भूत्वा मम तात युधिष्ठिर । प्रांजलिः प्राह विप्रर्षिर्नामसंग्रहमादितः ॥ 1

उपमन्युरुवाच

ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदांगसंभवैः । सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥ 2

महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः । ऋषिणा तंडिना भक्त्या कृतैर्वेदकृतात्मना ॥ 3 ॥

यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः । प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥ 4 ॥

श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः । सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् ॥ 5 ॥

वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम । वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् ॥ 6 ॥

तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् । न शक्यं विस्तरात्कृत्स्नं वक्तुं सर्वस्य केनचित् ॥ 7 ॥

युक्तेनापि विभूतीनामपि वर्षशतैरपि । यस्यादिर्मध्यमंतं च सुरैरपि न गम्यते ॥ 8 ॥

कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव । किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् ॥ 9 ॥

शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः । अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥ 10 ॥

यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया । अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥ 11 ॥

नाम्नां किंचित्समुद्देशं वक्ष्याम्यव्यक्तयोनिनः । वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ॥ 12 ॥

शृणु नाम्नां च यं कृष्ण यदुक्तं पद्मयोनिना । दशनामसहस्राणि यान्याह प्रपितामहः ॥ 13 ॥

तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् । गिरेः सारं यथा हेम पुष्पसारं यथा मधु ॥ 14 ॥

घृतात्सारं यथा मंडस्तथैतत्सारमुद्धृतम् । सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥ 15 ॥

प्रयत्नेनाधिगंतव्यं धार्यं च प्रयतात्मना । मांगल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ 16 ॥

इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च । नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥ 17 ॥

यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् । स कृष्ण नरकं याति सह पूर्वैः सहात्मजैः ॥ 18 ॥

इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् । इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥ 19 ॥

यं ज्ञात्वा अंतकालेपि गच्छेत परमां गतिम् । पवित्रं मंगलं मेध्यं कल्याणमिदमुत्तमम् ॥ 20 ॥

इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः । सर्व स्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ 21 ॥

तदा प्रभृति चैवायमीश्वरस्य महात्मनः । स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ 22 ॥

ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः । यतस्तंडिः पुरा प्राप तेन तंडिकृतोऽभवत् ॥ 23 ॥

स्वर्गाच्चैवात्र भूर्लोकं तंडिना ह्यवतारितः । सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ॥ 24 ॥

निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् । ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ॥ 25 ॥

तेजसामपि यत्तेजस्तपसामपि यत्तपः । शांतानामपि यः शांतो द्युतीनामपि या द्युतिः ॥ 26 ॥

दांतानामपि यो दांतो धीमतामपि या च धीः । देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ 27 ॥

यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः । रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥ 28 ॥

योगिनामपि यो योगी कारणानां च कारणम् । यतो लोकाः संभवंति न भवंति यतः पुनः ॥ 29 ॥

सर्वभूतात्मभूतस्य हरस्यामिततेजसः । अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु । यच्छ्रुत्वा मनुजव्याघ्र सर्वान्कामानवाप्स्यसि ॥ 30 ॥

ध्यानम् । शांतं पद्मासनस्थं शशिधरमुकुटं पंचवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहंतम् । नागं पाशं च घंटां प्रलयहुतवहं सांकुशं वामभागे नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

स्तोत्रम् । ॐ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः । सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 1 ॥

जटी चर्मी शिखंडी च सर्वांगः सर्वभावनः । हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ 2 ॥

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ 3 ॥

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः । उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 4 ॥

महारूपो महाकायो वृषरूपो महायशाः । महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ 5 ॥

लोकपालोऽंतर्हितात्मा प्रसादो हयगर्दभिः । पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ 6 ॥

सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः । सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ 7 ॥

चंद्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः । अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ 8 ॥ [आद्यंतलयकर्ता च]

महातपा घोरतपा अदीनो दीनसाधकः । संवत्सरकरो मंत्रः प्रमाणं परमं तपः ॥ 9 ॥

योगी योज्यो महाबीजो महारेता महाबलः । सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ 10 ॥

दशबाहुस्त्वनिमिषो नीलकंठ उमापतिः । विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥ 11 ॥

गणकर्ता गणपतिर्दिग्वासाः काम एव च । मंत्रवित्परमो मंत्रः सर्वभावकरो हरः ॥ 12 ॥

कमंडलुधरो धन्वी बाणहस्तः कपालवान् । अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ 13 ॥

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः । उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ 14 ॥

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च । सृगालरूपः सिद्धार्थो मुंडः सर्वशुभंकरः ॥ 15 ॥

अजश्च बहुरूपश्च गंधधारी कपर्द्यपि । ऊर्ध्वरेता ऊर्ध्वलिंग ऊर्ध्वशायी नभःस्थलः ॥ 16 ॥

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः । अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः ॥ 17 ॥

गजहा दैत्यहा कालो लोकधाता गुणाकरः । सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः ॥ 18 ॥

कालयोगी महानादः सर्वकामश्चतुष्पथः । निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 19 ॥

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः । नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ 20 ॥

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः । सहस्रहस्तो विजयो व्यवसायो ह्यतंद्रितः ॥ 21 ॥

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः । [मर्ष] दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ 22 ॥

तेजोपहारी बलहा मुदितोऽर्थोऽजितोऽवरः । गंभीरघोषो गंभीरो गंभीरबलवाहनः ॥ 23 ॥

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः । सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ 24 ॥

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः । तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ 25 ॥

विष्णुप्रसादितो यज्ञः समुद्रो बडबामुखः । हुताशनसहायश्च प्रशांतात्मा हुताशनः ॥ 26 ॥

उग्रतेजा महातेजा जन्यो विजयकालवित् । ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ 27 ॥

शिखी मुंडी जटी ज्वाली मूर्तिजो मूर्धगो बली । वेणवी पणवी ताली खली कालकटंकटः ॥ 28 ॥

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः । प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥ 29 ॥

विमोचनः सुसरणो हिरण्यकवचोद्भवः । मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ 30 ॥ [मेघजो]

सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः । व्यालरूपो गुहावासी गुहो माली तरंगवित् ॥ 31 ॥

त्रिदशस्त्रिकालधृक्कर्मसर्वबंधविमोचनः । बंधनस्त्वसुरेंद्राणां युधिशत्रुविनाशनः ॥ 32 ॥

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः । प्रस्कंदनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ 33 ॥

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः । हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥ 34 ॥ [यज्ञः]

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः । संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 35 ॥

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः । सर्वकालप्रसादश्च सुबलो बलरूपधृत् ॥ 36 ॥

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः । आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ 37 ॥

रौद्ररूपोऽंशुरादित्यो बहुरश्मिः सुवर्चसी । वसुवेगो महावेगो मनोवेगो निशाचरः ॥ 38 ॥

सर्ववासी श्रियावासी उपदेशकरोऽकरः । मुनिरात्मनिरालोकः संभग्नश्च सहस्रदः ॥ 39 ॥

पक्षी च पक्षरूपश्च अतिदीप्तो विशां पतिः । उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ 40 ॥

वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः । सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ 41 ॥

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः । महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥ 42 ॥

वज्रहस्तश्च विष्कंभी चमूस्तंभन एव च । वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ 43 ॥

वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः । [नित्यमाश्रितपूजितः] ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ 44 ॥

ईशान ईश्वरः कालो निशाचारी पिनाकभृत् । निमित्तस्थो निमित्तं च नंदिर्नंदिकरो हरिः ॥ 45 ॥

नंदीश्वरश्च नंदी च नंदनो नंदिवर्धनः । भगहारी निहंता च कालो ब्रह्मा पितामहः ॥ 46 ॥

चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च । लिंगाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ 47 ॥

बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः । इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ 48 ॥

दंभो ह्यदंभो वैदंभो वश्यो वशकरः कलिः । लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ 49 ॥

अक्षरं परमं ब्रह्म बलवच्छक्र एव च । नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ 50 ॥

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् । वेदकारो मंत्रकारो विद्वान् समरमर्दनः ॥ 51 ॥

महामेघनिवासी च महाघोरो वशीकरः । अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 52 ॥

वृषणः शंकरो नित्यवर्चस्वी धूमकेतनः । नीलस्तथांगलुब्धश्च शोभनो निरवग्रहः ॥ 53 ॥

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । उत्संगश्च महांगश्च महागर्भपरायणः ॥ 54 ॥

कृष्णवर्णः सुवर्णश्च इंद्रियं सर्वदेहिनाम् । महापादो महाहस्तो महाकायो महायशाः ॥ 55 ॥

महामूर्धा महामात्रो महानेत्रो निशालयः । महांतको महाकर्णो महोष्ठश्च महाहनुः ॥ 56 ॥

महानासो महाकंबुर्महाग्रीवः श्मशानभाक् । महावक्षा महोरस्को ह्यंतरात्मा मृगालयः ॥ 57 ॥

लंबनो लंबितोष्ठश्च महामायः पयोनिधिः । महादंतो महादंष्ट्रो महाजिह्वो महामुखः ॥ 58 ॥

महानखो महारोमा महाकेशो महाजटः । प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ 59 ॥

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः । वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ 60 ॥

गंडली मेरुधामा च देवाधिपतिरेव च । अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ 61 ॥

यजुः पादभुजो गुह्यः प्रकाशो जंगमस्तथा । अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ 62 ॥

उपकारः प्रियः सर्वः कनकः कांचनच्छविः । नाभिर्नंदिकरो भावः पुष्करस्थपतिः स्थिरः ॥ 63 ॥

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः । नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 64 ॥

सगणो गणकारश्च भूतवाहनसारथिः । भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ 65 ॥

लोकपालस्तथाऽलोको महात्मा सर्वपूजितः । शुक्लस्त्रिशुक्लः संपन्नः शुचिर्भूतनिषेवितः ॥ 66 ॥

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः । विशालशाखस्ताम्रोष्ठो ह्यंबुजालः सुनिश्चलः ॥ 67 ॥

कपिलः कपिशः शुक्ल आयुश्चैव परो¶ः । गंधर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ 68 ॥

परश्वधायुधो देवो ह्यनुकारी सुबांधवः । तुंबवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ 69 ॥

उग्रो वंशकरो वंशो वंशनादो ह्यनिंदितः । सर्वांगरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 70 ॥

बंधनो बंधकर्ता च सुबंधनविमोचनः । स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ 71 ॥

बहुधा निंदितः शर्वः शंकरः शंकरोऽधनः । अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ 72 ॥

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा । [हरि] अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ॥ 73 ॥

धन्वंतरिर्धूमकेतुः स्कंदो वैश्रवणस्तथा । धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ 74 ॥

प्रभावः सर्वगो वायुरर्यमा सविता रविः । उषंगुश्च विधाता च मांधाता भूतभावनः ॥ 75 ॥

विभुर्वर्णविभावी च सर्वकामगुणावहः । पद्मनाभो महागर्भश्चंद्रवक्त्रोऽनिलोऽनलः ॥ 76 ॥

बलवांश्चोपशांतश्च पुराणः पुण्यचंचुरी । कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ 77 ॥

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः । देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ 78 ॥

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः । कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ 79 ॥

वणिजो वर्धकी वृक्षो वकुलश्चंदनश्छदः । सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ 80 ॥

सिद्धार्थकारी सिद्धार्थश्छंदोव्याकरणोत्तरः । सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 81 ॥

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः । सारंगो नवचक्रांगः केतुमाली सभावनः ॥ 82 ॥

भूतालयो भूतपतिरहोरात्रमनिंदितः ॥ 83 ॥

वाहिता सर्वभूतानां निलयश्च विभुर्भवः । अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ 84 ॥

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः । गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ 85 ॥

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् । प्रकृष्टारिर्महाहर्षो जितकामो जितेंद्रियः ॥ 86 ॥

गांधारश्च सुवासश्च तपःसक्तो रतिर्नरः । महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ 87 ॥

महाकेतुर्महाधातुर्नैकसानुचरश्चलः । आवेदनीय आदेशः सर्वगंधसुखावहः ॥ 88 ॥

तोरणस्तारणो वातः परिधी पतिखेचरः । संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ 89 ॥

नित्य आत्मसहायश्च देवासुरपतिः पतिः । युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥ 90 ॥

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः । वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ 91 ॥

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः । अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ 92 ॥

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः । निर्जीवो जीवनो मंत्रः शुभाक्षो बहुकर्कशः ॥ 93 ॥

रत्नप्रभूतो रक्तांगो महार्णवनिपानवित् । [रत्नांगो] मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ 94 ॥

आरोहणोऽधिरोहश्च शीलधारी महायशाः । सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ 95 ॥ [योगकरो]

युगरूपो महारूपो महानागहनो वधः । न्यायनिर्वपणः पादः पंडितो ह्यचलोपमः ॥ 96 ॥

बहुमालो महामालः शशी हरसुलोचनः । विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ 97 ॥

त्रिलोचनो विषण्णांगो मणिविद्धो जटाधरः । बिंदुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ 98 ॥

निवेदनः सुखाजातः सुगंधारो महाधनुः । गंधपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ 99 ॥

मंथानो बहुलो वायुः सकलः सर्वलोचनः । तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ 100 ॥

छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः । मुंडो विरूपो विकृतो दंडी कुंडी विकुर्वणः ॥ 101 ॥

हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् । सहस्रमूर्धा देवेंद्रः सर्वदेवमयो गुरुः ॥ 102 ॥

सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत् । पवित्रं त्रिककुन्मंत्रः कनिष्ठः कृष्णपिंगलः ॥ 103 ॥

ब्रह्मदंडविनिर्माता शतघ्नीपाशशक्तिमान् । पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ 104 ॥

गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः । अनंतरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ॥ 105 ॥

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । चंदनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ 106 ॥

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् । उमापतिरुमाकांतो जाह्नवीधृदुमाधवः ॥ 107 ॥

वरो वराहो वरदो वरेण्यः सुमहास्वनः । महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः ॥ 108 ॥

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् । [प्रीतात्मा] सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ 109 ॥

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः । साध्यर्षिर्वसुरादित्यो विवस्वान्सवितामृतः ॥ 110 ॥

व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः । ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः ॥ 111 ॥

कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः । विश्वक्षेत्रं प्रजाबीजं लिंगमाद्यस्तु निर्गमः ॥ 112 ॥

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ 113 ॥

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः । देवासुरविनिर्माता देवासुरपरायणः ॥ 114 ॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामात्रो देवासुरगणाश्रयः ॥ 115 ॥

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ 116 ॥ [देवादि]

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः । सर्वदेवमयोऽचिंत्यो देवतात्माऽऽत्मसंभवः ॥ 117 ॥

उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः । ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ 118 ॥

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः । सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ 119 ॥

गुहः कांतो निजः सर्गः पवित्रं सर्वपावनः । शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः ॥ 120 ॥

अभिरामः सुरगणो विरामः सर्वसाधनः । ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ 121 ॥

स्थावराणां पतिश्चैव नियमेंद्रियवर्धनः । सिद्धार्थः सिद्धभूतार्थोऽचिंत्यः सत्यव्रतः शुचिः ॥ 122 ॥

व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः । [भक्तानुग्रहकारकः] विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ 123 ॥

उत्तरपीठिका (फलशृति) यथा प्रधानं भगवानिति भक्त्या स्तुतो मया । यं न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः ॥ 1 ॥

स्तोतव्यमर्च्यं वंद्यं च कः स्तोष्यति जगत्पतिम् । भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ 2 ॥

ततोऽभ्यनुज्ञां संप्राप्य स्तुतो मतिमतां वरः । शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥ 3 ॥

नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना । एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥ 4 ॥

ऋषयश्चैव देवाश्च स्तुवंत्येतेन तत्परम् । स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ॥ 5 ॥

भक्तानुकंपी भगवानात्मसंस्थाकरो विभुः । तथैव च मनुष्येषु ये मनुष्याः प्रधानतः ॥ 6 ॥

आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः । भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ॥ 7 ॥

कर्मणा मनसा वाचा भावेनामिततेजसः । शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ॥ 8 ॥

उन्मिषन्निमिषंश्चैव चिंतयंतः पुनः पुनः । शृण्वंतः श्रावयंतश्च कथयंतश्च ते भवम् ॥ 9 ॥

स्तुवंतः स्तूयमानाश्च तुष्यंति च रमंति च । जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ 10 ॥

जंतोर्विगतपापस्य भवे भक्तिः प्रजायते । उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ 11 ॥

भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा । एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥ 12 ॥

निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी । तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ 13 ॥

येन यांति परां सिद्धिं तद्भावगतचेतसः । ये सर्वभावानुगताः प्रपद्यंते महेश्वरम् ॥ 14 ॥

प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् । एवमन्ये विकुर्वंति देवाः संसारमोचनम् ॥ 15 ॥

मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् । इति तेनेंद्रकल्पेन भगवान् सदसत्पतिः ॥ 16 ॥

कृत्तिवासाः स्तुतः कृष्ण तंडिना शुभबुद्धिना । स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ॥ 17 ॥

गीयते च स बुद्ध्येत ब्रह्मा शंकरसन्निधौ । इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ॥ 18 ॥

योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा । एवमेतत्पठंते य एकभक्त्या तु शंकरम् ॥ 19 ॥

या गतिः सांख्ययोगानां व्रजंत्येतां गतिं तदा । स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ ॥ 20 ॥

अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् । एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ॥ 21 ॥

ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे । मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तंडिमागमत् ॥ 22 ॥

महता तपसा प्राप्तस्तंडिना ब्रह्मसद्मनि । तंडिः प्रोवाच शुक्राय गौतमाय च भार्गवः ॥ 23 ॥

वैवस्वताय मनवे गौतमः प्राह माधव । नारायणाय साध्याय समाधिष्ठाय धीमते ॥ 24 ॥

यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः । नाचिकेताय भगवानाह वैवस्वतो यमः ॥ 25 ॥

मार्कंडेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत । मार्कंडेयान्मया प्राप्तो नियमेन जनार्दन ॥ 26 ॥

तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम् । स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ॥ 27 ॥

नास्य विघ्नं विकुर्वंति दानवा यक्षराक्षसाः । पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥ 28 ॥

यः पठेत शुचिः पार्थ ब्रह्मचारी जितेंद्रियः । [भूत्वा] अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ 29 ॥

इति श्रीमहाभारते अनुशासनपर्वणि महादेवसहस्रनाम स्तोत्रं नाम सप्तदशोऽध्यायः ॥

ಶಿವ ಸಹಸ್ರ ನಾಮ ಸ್ತೋತ್ರಂ ಬಗ್ಗೆ

ಈ ಶಿವ ಸಹಸ್ರನಾಮ ಸ್ತೋತ್ರ ಮಹಾಭಾರತದ ಅನುಶಾಸನಪರ್ವದ ಶಿವನ ಸಾವಿರ ನಾಮಗಳು. ಇದರಲ್ಲಿ ಮಹಾ ಶಿವಭಕ್ತ ಉಪಮನ್ಯು ಮಹರ್ಷಿ, ಬ್ರಹ್ಮನಿಂದ ಋಷಿಪರಂಪರೆಯಲ್ಲಿ ಬಂದ ಈ ಸಾವಿರ ನಾಮಗಳನ್ನು ತನಗೆ ಹೇಗೆ ಉಪದೇಶಿಸಿದರು ಎಂದು ಶ್ರೀಕೃಷ್ಣ ಯುಧಿಷ್ಠಿರನಿಗೆ ಹೇಳುತ್ತಾನೆ. ಸ್ಥಿರ, ಸ್ಥಾಣು, ಪ್ರಭು, ಭೀಮ ಎಂದು ಆರಂಭವಾಗುವ ನಾಮಗಳು ಶಿವನನ್ನು ಅಚಲ, ಒಡೆಯ, ಭೀಕರ, ಮಂಗಳಕರ, ಎಲ್ಲದರ ಮೂಲ ಮತ್ತು ಅಂತ್ಯ ಎಂದು ಸ್ತುತಿಸುತ್ತವೆ.

ಮೂಲ: ಕೊನೆಯ ಸಾಲಿನಲ್ಲಿ ಹೇಳಿರುವಂತೆ ಮಹಾಭಾರತ, ಅನುಶಾಸನಪರ್ವ

ಯಾವಾಗ ಪಠಿಸಬೇಕು: ಸೋಮವಾರ, ಪ್ರದೋಷ ಮತ್ತು ಮಹಾಶಿವರಾತ್ರಿಯಂದು, ಶಿವಾರ್ಚನೆಯಲ್ಲಿ, ಮತ್ತು ಮಹಾಭಾರತ ಅಧ್ಯಯನದಲ್ಲಿ.

ನಿಮಗೆ ಗೊತ್ತೇ?

  • ಇದರ ಕೊನೆಯ ಸಾಲು ಇದನ್ನು ಮಹಾಭಾರತದ ಅನುಶಾಸನಪರ್ವದ ಹದಿನೇಳನೇ ಅಧ್ಯಾಯದಲ್ಲಿ ಇರಿಸುತ್ತದೆ.
  • ಮಹಾಕಾವ್ಯದಲ್ಲಿ ಉಪಮನ್ಯುವಿನಿಂದ ಈ ನಾಮಗಳನ್ನು ಕಲಿತ ನಂತರ ಕೃಷ್ಣನೇ ತಪಸ್ಸು ಮಾಡಿ ಶಿವನ ವರ ಪಡೆಯುತ್ತಾನೆ.
  • ಇದು ಹಲವು ಶಿವ ಸಹಸ್ರನಾಮಗಳಲ್ಲಿ ಒಂದು; ಇತರವು ಲಿಂಗ ಮತ್ತು ಶಿವ ಪುರಾಣಗಳಲ್ಲಿವೆ.

ಈ ಹಬ್ಬಗಳಂದು ಪಠಿಸುತ್ತಾರೆ

ಪದೇ ಪದೇ ಕೇಳುವ ಪ್ರಶ್ನೆಗಳು

ಈ ಶಿವ ಸಹಸ್ರನಾಮ ಎಲ್ಲಿದೆ?

ಮಹಾಭಾರತದ ಅನುಶಾಸನಪರ್ವ, ೧೭ನೇ ಅಧ್ಯಾಯ.

ಇದನ್ನು ಕೃಷ್ಣನಿಗೆ ಉಪದೇಶಿಸಿದವರು ಯಾರು?

ಮಹಾ ಶಿವಭಕ್ತ ಉಪಮನ್ಯು ಮಹರ್ಷಿ.

ಇದನ್ನು ಯಾವಾಗ ಪಠಿಸುತ್ತಾರೆ?

ಸೋಮವಾರ, ಪ್ರದೋಷ ಮತ್ತು ಶಿವರಾತ್ರಿಯಂದು.

ಆರಾಧನೆ ಮತ್ತು ಅಧ್ಯಯನಕ್ಕಾಗಿ ನೀಡಲಾಗಿದೆ, ಭವಿಷ್ಯವಾಣಿಯಾಗಿ ಅಲ್ಲ. ವಾಣಿಜ್ಯೇತರ.