MuhurtaNow

ವಾರಾಹೀ ಸಹಸ್ರ ನಾಮ ಸ್ತೋತ್ರಂ

Sahasra Nama · ಸಾಂಪ್ರದಾಯಿಕ ಭಕ್ತಿ ಪಠ್ಯ

देव्युवाच

श्रीकंठ करुणासिंधो दीनबंधो जगत्पते । भूतिभूषितसर्वांग परात्परतर प्रभो ॥ 1

कृतांजलिपुटा भूत्वा पृच्छाम्येकं दयानिधे । आद्या या चित्स्वरूपा या निर्विकारा निरंजना ॥ 2 ॥

बोधातीता ज्ञानगम्या कूटस्थानंदविग्रहा । अग्राह्यातींद्रिया शुद्धा निरीहा स्वावभासिका ॥ 3 ॥

गुणातीता निष्प्रपंचा ह्यवाङ्मनसगोचरा । प्रकृतिर्जगदुत्पत्तिस्थितिसंहारकारिणी ॥ 4 ॥

रक्षार्थं जगतो देवकार्यार्थं वा सुरद्विषाम् । नाशाय धत्ते सा देहं तत्तत्कार्यैकसाधकम् ॥ 5 ॥

तत्र भूधरणार्थाय यज्ञविस्तारहेतवे । विद्युत्केशहिरण्याक्षबालाकादिवधाय च ॥ 6 ॥

आविर्बभूव या शक्तिर्घोरा भूदाररूपिणी । वाराही विकटाकारा दानवासुरनाशिनी ॥ 7 ॥

सद्यः सिद्धिकरी देवी घोराद्घोरतरा शिवा । तस्याः सहस्रनामाख्यं स्तोत्रं मे समुदीरय ॥ 8 ॥

कृपालेशोऽस्ति मयि चेद्भाग्यं मे यदि वा भवेत् । अनुग्राह्या यद्यहं स्यां तदा वद दयानिधे ॥ 9 ॥

ईश्वर उवाच

साधु साधु वरारोहे धन्या बहुमतासि मे । शुश्रूषया समुत्पन्ना भक्तिः श्रद्धान्विता तव ॥ 10

सहस्रनाम वाराह्याः सर्वसिद्धिविधायि च । तव चेन्न प्रवक्ष्यामि प्रिये कस्य वदाम्यहम् ॥ 11 ॥

किंतु गोप्यं प्रयत्नेन संरक्ष्यं प्राणतोऽपि च । विशेषतः कलियुगे न देयं यस्य कस्यचित् । सर्वेऽन्यथा सिद्धिभाजो भविष्यंति वरानने ॥ 12 ॥

ॐ अस्य श्रीवाराहीसहस्रनामस्तोत्रस्य महादेव ऋषिः । अनुष्टुप् छंदः । वाराही देवता । ऐं बीजम् । क्रों शक्तिः । हुं कीलकम् । मम सर्वार्थसिद्ध्यर्थे जपे विनियोगः ।

ॐ वाराही वामनी वामा बगला वासवी वसुः । वैदेही वीरसूर्बाला वरदा विष्णुवल्लभा ॥ 13 ॥

वंदिता वसुदा वश्या व्यात्तास्या वंचिनी बला । वसुंधरा वीतिहोत्रा वीतरागा विहायसी ॥ 14 ॥

सर्वा खनिप्रिया काम्या कमला कांचनी रमा । धूम्रा कपालिनी वामा कुरुकुल्ला कलावती ॥ 15 ॥

याम्याऽऽग्नेयी धरा धन्या धर्मिणी ध्यानिनी ध्रुवा । धृतिर्लक्ष्मीर्जया तुष्टिः शक्तिर्मेधा तपस्विनी ॥ 16 ॥

वेधा जया कृतिः कांतिः स्वाहा शांतिर्दमा रतिः । लज्जा मतिः स्मृतिर्निद्रा तंत्रा गौरी शिवा स्वधा ॥ 17 ॥

चंडी दुर्गाऽभया भीमा भाषा भामा भयानका । भूदारा भयहा भीरुर्भैरवी भंगरा भटी ॥ 18 ॥

घुर्घुरा घोषणा घोरा घोषिणी घोणसंयुता । घनाघना घर्घरा च घोणयुक्ताऽघनाशिनी ॥ 19 ॥

पूर्वाग्नेयी यातु याम्या वायव्युत्तरवारुणी । ऐशान्यूर्ध्वाधःस्थिता च पृष्ठदक्षाग्रवामगा ॥ 20 ॥

हृन्नाभिब्रह्मरंध्रार्कस्वर्गपातालभूमिगा । ऐं श्रीः ह्रीः क्लीं तीर्थगतिः प्रीतिर्धीर्गीः कलाऽव्यया ॥ 21 ॥

ऋग्यजुः सामरूपा च परा पोत्रिण्युदुंबरा । गदासिशक्तिचापेषुशूलचक्रर्ष्टिधारिणी ॥ 22 ॥

जरती युवती बाला चतुरंगबलोत्कटा । सत्याक्षरा निधिर्नेत्री धात्री पोत्री परा पटुः ॥ 23 ॥

क्षेत्रज्ञा कंपिनी ज्येष्ठा दुराधर्षा धुरंधरा । मालिनी मानिनी माता माननीया मनस्विनी ॥ 24 ॥

मदोत्कटा मन्युकरी मनुरूपा मनोजवा । मेदस्विनी मद्यरता मधुपा मंगलाऽमरा ॥ 25 ॥

माया माताऽऽमयहरी मृडानी महिला मृतिः । महादेवी मोहहरी मंजुर्मृत्युंजयाऽमला ॥ 26 ॥

मांसला मानवा मूला महारात्रिर्मदालसा । मृगांका मेनका मान्या महिषघ्नी मदंतिका ॥ 27 ॥

मूर्छामोहमृषामोघामदमृत्युमलापहा । सिंहर्क्षमहिषव्याघ्रमृगक्रोडानना धुनी ॥ 28 ॥

धरिणी धारिणी धेनुर्धरित्री धावनी धवा । धर्मध्वना ध्यानपरा धनधान्यधराप्रदा ॥ 29 ॥

पापदोषरिपुव्याधिनाशिनी सिद्धिदायिनी । कलाकाष्ठाक्षमापक्षाहस्त्रुटिश्वासरूपिणी ॥ 30 ॥

समृद्धा सुभुजा रौद्री राधा रागा रमारणिः । रामा रतिप्रिया रुष्टा रक्षिणी रविमध्यगा ॥ 31 ॥

रजनी रमणी रेवा रंकिनी रंजिनी रमा । रोषा रोषवती रूक्षा करिराज्यप्रदा रता ॥ 32 ॥

रूक्षा रूपवती रास्या रुद्राणी रणपंडिता । गंगा च यमुना चैव सरस्वतिस्वसूर्मधुः ॥ 33 ॥

गंडकी तुंगभद्रा च कावेरी कौशिकी पटुः । कट्वोरगवती चारा सहस्राक्षा प्रतर्दना ॥ 34 ॥

सर्वज्ञा शांकरी शास्त्री जटाधारिण्ययोरदा । यावनी सौरभी कुब्जा वक्रतुंडा वधोद्यता ॥ 35 ॥

चंद्रापीडा वेदवेद्या शंखिनी नीललोहिता । ध्यानातीताऽपरिच्छेद्या मृत्युरूपा त्रिवर्गदा ॥ 36 ॥

अरूपा बहुरूपा च नानारूपा नतानना । वृषाकपिर्वृषारूढा वृषेशी वृषवाहना ॥ 37 ॥

वृषप्रिया वृषावर्ता वृषपर्वा वृषाकृतिः । कोदंडिनी नागचूडा चक्षुष्या परमार्थिका ॥ 38 ॥

दुर्वासा दुर्गहा देवी दुरावासा दुरारिहा । दुर्गा राधा दुःखहंत्री दुराराध्या दवीयसी ॥ 39 ॥

दुरावासा दुष्प्रहस्ता दुष्प्रकंपा दुरूहिणी । सुवेणी रमणी श्यामा मृगव्याधार्घतापिनी ॥ 40 ॥

उग्रा तार्क्षी पाशुपती कौणपी कुणपाशना । [दुर्गा] कपर्दिनी कामकामा कमनीया कलोज्ज्वला ॥ 41 ॥

कासावहृत्कारकानी कंबुकंठी कृतागमा । कर्कशा कारणा कांता कल्पाऽकल्पा कटंकटा ॥ 42 ॥

श्मशाननिलया भिन्ना गजारुढा गजापहा । तत्प्रिया तत्परा राया स्वर्भानुः कालवंचिनी ॥ 43 ॥

शाखा विशाखा गोशाखा सुशाखा शेषशाखिनी । व्यंगा शुभांगा वामांगा नीलांगाऽनंगरूपिणी ॥ 44 ॥

सांगोपांगा च सारंगा सुभांगा रंगरूपिणी । भद्रा सुभद्रा भद्राक्षी सिंहिका विनताऽदितिः ॥ 45 ॥

हृद्याऽवद्या सुपद्या च गद्यपद्यप्रिया प्रसूः । चर्चिका भोगवत्यंबा सारसी शबरी नटी ॥ 46 ॥

योगिनी पुष्कलाऽनंता परा सांख्या शची सती । निम्नगा निम्ननाभिश्च सहिष्णुर्जागृती लिपिः ॥ 47 ॥

दमयंती दमी दंडोद्दंडिनी दारदायिका । दीपिनी दाविनी धात्री दक्षकन्या दम्या दरत् ॥ 48 ॥

दाहिनी द्रविणी दर्वी दंडिनी दंडनायिका । दानप्रिया दोषहंत्री दुःखदारिद्र्यनाशिनी ॥ 49 ॥

दोषदा दोषकृद्दोग्ध्री दोहती देविकाऽधना । दर्वीकरी दुर्वलिता दुर्युगाऽद्वयवादिनी ॥ 50 ॥

चराचराऽनंतवृष्टिरुन्मत्ता कमलाऽलसा । तारिणी तारकांतारा परमात्माब्जलोचना ॥ 51 ॥

इंदुर्हिरण्यकवचा व्यवस्था व्यवसायिका । ईशनंदा नदी नागी यक्षिणी सर्पिणी वरी ॥ 52 ॥

सुधा सुरा विश्वसहा सुवर्णांगदधारिणी । जननी प्रीतिभागेशी साम्राज्ञी संविदुत्तमा ॥ 53 ॥

अमेयाऽरिष्टदमनी पिंगला लिंगधारिणी । चामुंडा प्लाविनी हाला बृहज्ज्योतिरुरुक्रमा ॥ 54 ॥

सुप्रतीका च सुग्रीवा हव्यवाहा प्रलापिनी । नभस्या माधवी ज्येष्ठा शिशिरा ज्वालिनी रुचिः ॥ 55 ॥

शुक्ला शुक्रा शुचा शोका शुकी भेकी पिकी बकी । पृषदश्वा नभोयोनिः सुप्रतीका विभावरी ॥ 56 ॥

गर्विता गुर्विणी गण्या गुरुर्गुरुधरी गया । गंधर्वी गणिका गुंद्रा गारुडी गोपिकाऽग्रगा ॥ 57 ॥

गणेशी गामिनी गंता गोपतिर्गंधिनी गवी । गर्जिता गाननी गोना गोरक्षा गोविदां गतिः ॥ 58 ॥

ग्राथिकी ग्रथिकृद्गोष्ठी गर्भरूपा गुणैषिणी । पारस्करी पांचनदा बहुरूपा विरूपिका ॥ 59 ॥

ऊहा व्यूहा दुरूहा च सम्मोहा मोहहारिणी । यज्ञविग्रहिणी यज्ञा यायजूका यशस्विनी ॥ 60 ॥

अग्निष्टोमाऽत्यग्निष्टोमा वाजपेयश्च षोडशी । पुंडरीकाऽश्वमेधश्च राजसूयश्च नाभसः ॥ 61 ॥

स्विष्टकृद्बहुसौवर्णो गोसवश्च महाव्रतः । विश्वजिद्ब्रह्मयज्ञश्च प्राजापत्यः शिलायवः ॥ 62 ॥

अश्वक्रांता रथक्रांता विष्णुक्रांता विभावसुः । सूर्यक्रांता गजक्रांता बलिभिन्नागयज्ञकः ॥ 63 ॥

सावित्री चार्धसावित्री सर्वतोभद्रवारुणा । आदित्यामय गोदोह गवामय मृगामया ॥ 64 ॥

सर्पमयः कालपिंजः कौंडिन्योपनागाहलः । अग्निविद्द्वादशाहस्वोपांशुः सोम विधो हनः ॥ 65 ॥

अश्वप्रतिग्रहो बर्हिरथोऽभ्युदय ऋद्धिराट् । सर्वस्वदक्षिणो दीक्षा सोमाख्या समिदाह्वयः ॥ 66 ॥

कठायनश्च गोदोहः स्वाहाकारस्तनूनपात् । दंडा पुरुष मेधश्च श्येनो वज्र इषुर्यमः ॥ 67 ॥

अंगिराः कंकभेरुंडा चांद्रायणपरायणा । ज्योतिष्टोमः गुदो दर्शो नंद्याख्यः पौर्णमासिकः ॥ 68 ॥

गजप्रतिग्रहो रात्रिः सौरभः शांकलायनः । सौभाग्यकृच्च कारीषो बैदलायनरामठौ ॥ 69 ॥

शोचिष्कारी नाचिकेतः शांतिकृत्पुष्टिकृत्तथा । वैनतेयोच्चाटनौ च वशीकरण मारणे ॥ 70 ॥

त्रैलोक्यमोहनो वीरः कंदर्पबलशातनः । शंखचूडो गजच्छायो रौद्राख्यो विष्णुविक्रमः ॥ 71 ॥

भैरवः कवहाख्यश्चावभृथोऽष्टकपालकः । श्रौषट् वौषट् वषट्कारः पाकसंस्था परिश्रुती ॥ 72 ॥

चयनो नरमेधश्च कारीरी रत्नदानिका । सौत्रामणी च भारुंदा बार्हस्पत्यो बलंगमः ॥ 73 ॥

प्रचेताः सर्वसत्रश्च गजमेधः करंभकः । हविःसंस्था सोमसंस्था पाकसंस्था गरुत्मती ॥ 74 ॥

सत्यसूर्यश्चमसः स्रुक् स्रुवोलूखल मेक्षणी । चपलो मंथनी मेढी यूपः प्राग्वंशकुंचिका ॥ 75 ॥

रश्मिरंशुश्च दोभ्यश्च वारुणोदः पविः कुथा । आप्तोर्यामो द्रोणकलशो मैत्रावरुण आश्विनः ॥ 76 ॥

पात्नीवतश्च मंथी च हारियोजन एव च । प्रतिप्रस्थानशुक्रौ च सामिधेनी समित्समा ॥ 77 ॥

होताऽध्वर्युस्तथोद्गाता नेता त्वष्टा च योत्रिका । आग्नीध्रोऽच्छावकाष्टावग्ग्रावस्तुत्प्रतर्दकः ॥ 78 ॥

सुब्रह्मण्यो ब्राह्मणश्च मैत्रावरुणवारुणौ । प्रस्तोता प्रतिप्रस्थाता यजमानो ध्रुवंत्रिका ॥ 79 ॥

आमिक्षा पृषदाज्यं च हव्यं कव्यं चरुः पयः । जुहुद्घ्रावोपभृद्ब्रह्मा त्रयी त्रेता तरस्विनी ॥ 80 ॥

पुरोडाशः पशूकर्षः प्रोक्षणी ब्रह्मयज्ञिनी । अग्निजिह्वा दर्भरोमा ब्रह्मशीर्षा महोदरी ॥ 81 ॥

अमृतप्राशिका नारायणी नग्ना दिगंबरा । ॐकारिणी चतुर्वेदरूपा श्रुतिरनुल्बणा ॥ 82 ॥

अष्टादशभुजा रंभा सत्या गगनचारिणी । भीमवक्त्रा महावक्त्रा कीर्तिराकृष्णपिंगला ॥ 83 ॥

कृष्णमूर्धा महामूर्धा घोरमूर्धा भयानना । घोरानना घोरजिह्वा घोररावा महाव्रता ॥ 84 ॥

दीप्तास्या दीप्तनेत्रा च चंडप्रहरणा जटी । सुरभी सौलभी वीची छाया संध्या च मांसला ॥ 85 ॥

कृष्णा कृष्णांबरा कृष्णशारंगिणी कृष्णवल्लभा । त्रासिनी मोहिनी द्वेष्या मृत्युरूपा भयापहा ॥ 86 ॥

भीषणा दानवेंद्रघ्नी कल्पकर्ता क्षयंकरी । अभया पृथिवी साध्वी केशिनी व्याधिजन्महा ॥ 87 ॥

अक्षोभ्याऽऽह्लादिनी कन्या पवित्रा रोपिणी शुभा । कन्यादेवी सुरादेवी भीमादेवी मदंतिका ॥ 88 ॥

शाकंभरी महाश्वेता धूम्रा धूम्रेश्वरीश्वरी । वीरभद्रा महाभद्रा महादेवी महासुरी ॥ 89 ॥

श्मशानवासिनी दीप्ता चितिसंस्था चितिप्रिया । कपालहस्ता खट्वांगी खड्गिनी शूलिनी हली ॥ 90 ॥

कांतारिणी महायोगी योगमार्गा युगग्रहा । धूम्रकेतुर्महास्यायुर्युगानां परिवर्तिनी ॥ 91 ॥

अंगारिण्यंकुशकरा घंटावर्णा च चक्रिणी । वेताली ब्रह्मवेताली महावेतालिका तथा ॥ 92 ॥

विद्याराज्ञी मोहराज्ञी महाराज्ञी महोदरी । भूतं भव्यं भविष्यं च सांख्यं योगस्तपो दमः ॥ 93 ॥

अध्यात्मं चाधिदैवं चाधिभूतांश एव च । घंटारवा विरूपाक्षी शिखिविच्छ्रीचयप्रिया ॥ 94 ॥

खड्गशूलगदाहस्ता महिषासुरमर्दिनी । मातंगी मत्तमातंगी कौशिकी ब्रह्मवादिनी ॥ 95 ॥

उग्रतेजा सिद्धसेना जृंभिणी मोहिनी तथा । जया च विजया चैव विनता कद्रुरेव च ॥ 96 ॥

धात्री विधात्री विक्रांता ध्वस्ता मूर्छा च मूर्छनी । दमनी धर्मिणी दम्या छेदिनी तापिनी तपी ॥ 97 ॥

बंधिनी बाधिनी बंधा बोधातीता बुधप्रिया । हरिणी हारिणी हंत्री धरिणी धारिणी धरा ॥ 98 ॥

विसाधिनी साधिनी च संध्या संगोपनी प्रिया । रेवती कालकर्णी च सिद्धिर्लक्ष्मीररुंधती ॥ 99 ॥

धर्मप्रिया धर्मरतिः धर्मिष्ठा धर्मचारिणी । व्युष्टिः ख्यातिः सिनीवाली कुहूः ऋतुमती मृतिः ॥ 100 ॥

त्वाष्ट्री वैरोचनी मैत्री नीरजा कैटभेश्वरी । भ्रमणी भ्रामणी भ्रामा भ्रमरी भ्रामरी भ्रमा ॥ 101 ॥

निष्कला कलहा नीता कौलाकारा कलेबरा । विद्युज्जिह्वा वर्षिणी च हिरण्याक्षनिपातिनी ॥ 102 ॥

जितकामा कामृगया कोला कल्पांगिनी कला । [कामगमा] प्रधाना तारका तारा हितात्मा हितभेदिनी ॥ 103 ॥

दुरक्षरा परब्रह्म महादाना महाहवा । वारुणी व्यरुणी वाणी वीणा वेणी विहंगमा ॥ 104 ॥

मोदप्रिया मोदकिनी प्लवनी प्लाविनी प्लुतिः । अजरा लोहिता लाक्षा प्रतप्ता विश्वभोजिनी ॥ 105 ॥

मनो बुद्धिरहंकारः क्षेत्रज्ञा क्षेत्रपालिका । चतुर्वेदा चतुर्भारा चतुरंता चरुप्रिया ॥ 106 ॥

चर्विणी चोरिणी चारी शांकरी चर्मभैरवी । निर्लेपा निष्प्रपंचा च प्रशांता नित्यविग्रहा ॥ 107 ॥

स्तव्या स्तवप्रिया व्याला गुरुराश्रितवत्सला । निष्कलंका निरालंबा निर्द्वंद्वा निष्परिग्रहा ॥ 108 ॥

निर्गुणा निर्मला नित्या निरीहा निरघा नवा । निरिंद्रिया निराभासा निर्मोहा नीतिनायिका ॥ 109 ॥

निरिंधना निष्कला च लीलाकारा निरामया । मुंडा विरूपा विकृता पिंगलाक्षी गुणोत्तरा ॥ 110 ॥

पद्मगर्भा महागर्भा विश्वगर्भा विलक्षणा । परमात्मा परेशानी परा पारा परंतपा ॥ 111 ॥

संसारसेतुः क्रूराक्षी मूर्छामुक्ता मनुप्रिया । [मग्ना] विस्मया दुर्जया दक्षा दनुहंत्री दयालया ॥ 112 ॥

परब्रह्माऽऽनंदरूपा सर्वसिद्धिविधायिनी । ओम् । एवमुड्डामरातंत्रान्मयोद्धृत्य प्रकाशितम् ॥ 113 ॥

गोपनीयं प्रयत्नेन नाख्येयं यस्य कस्यचित् । यदीच्छसि द्रुतं सिद्धिमैश्वर्यं चिरजीविताम् ॥ 114 ॥

आरोग्यं नृपसम्मानं दानान्यस्य तु कीर्तयेत् । नाम्नां सहस्रं वाराह्याः मया ते समुदीरितम् ॥ 115 ॥

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते । अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥ 116 ॥

पुंडरीकायुतस्यापि फलं पाठात् प्रजायते । पठतः सर्वभावेन सर्वा स्युः सिद्धयः करे ॥ 117 ॥

जायते महदैश्वर्यं सर्वेषां दयितो भवेत् । घनसारायते वह्निरगाधोब्धिः कणायते ॥ 118 ॥

सिद्धयश्च तृणायंते विषमप्यमृतायते । हारायंते महासर्पाः सिंहः क्रीडामृगायते ॥ 119 ॥

दासायंते महीपाला जगन्मित्रायतेऽखिलम् । तस्मान्नाम्नां सहस्रेण स्तुता सा जगदंबिका । प्रयच्छत्यखिलान् कामान् देहांते परमां गतिम् ॥ 120 ॥

इति उड्डामरतंत्रे श्री आदिवाराही सहस्रनाम स्तोत्रम् ॥

ವಾರಾಹೀ ಸಹಸ್ರ ನಾಮ ಸ್ತೋತ್ರಂ ಬಗ್ಗೆ

ವಾರಾಹೀ ಸಹಸ್ರನಾಮ ಸ್ತೋತ್ರ ಕೊನೆಯ ಸಾಲು ಹೇಳುವಂತೆ ಉಡ್ಡಾಮರ ತಂತ್ರದಿಂದ ವರಾಹಮುಖಿ ಮಾತೃದೇವಿ ಆದಿವಾರಾಹಿಯ ಸಾವಿರ ನಾಮಗಳನ್ನು ನೀಡುತ್ತದೆ. ದೇವಿ ಶಿವನನ್ನು ಕೇಳುವುದರಿಂದ ಆರಂಭ: "ಶ್ರೀಕಂಠ, ಕರುಣಾಸಿಂಧು, ದೀನಬಂಧು, ಜಗತ್ಪತಿ, ಭಸ್ಮಭೂಷಿತ ಸರ್ವಾಂಗ, ದಯಾನಿಧಿ, ಕೈಮುಗಿದು ಒಂದು ಕೇಳುತ್ತೇನೆ," ಚಿತ್ಸ್ವರೂಪ, ನಿರ್ವಿಕಾರ, ನಿರಂಜನ ಆದಿಶಕ್ತಿಯ ಬಗ್ಗೆ; ನಂತರ ಶಿವ ಸಾವಿರ ನಾಮಗಳನ್ನು ತಿಳಿಸುತ್ತಾನೆ.

ಮೂಲ: ಕೊನೆಯ ಸಾಲಿನಲ್ಲಿ ಹೇಳಿರುವಂತೆ ಉಡ್ಡಾಮರ ತಂತ್ರ

ಯಾವಾಗ ಪಠಿಸಬೇಕು: ಶುಕ್ರವಾರ ಮತ್ತು ಪಂಚಮಿಯಂದು, ಆಷಾಢ (ವಾರಾಹೀ) ನವರಾತ್ರಿಯಲ್ಲಿ, ಮತ್ತು ಗುರುವಿನ ಮಾರ್ಗದರ್ಶನದಲ್ಲಿ.

ನಿಮಗೆ ಗೊತ್ತೇ?

  • ವಾರಾಹೀ ಸಪ್ತಮಾತೃಕೆಯರಲ್ಲಿ ಒಬ್ಬಳು, ವರಾಹನ ಶಕ್ತಿ; ಶ್ರೀವಿದ್ಯೆಯಲ್ಲಿ ಲಲಿತೆಯ ಸೈನ್ಯದ ದಂಡನಾಥೆ.
  • ಆಷಾಢ ಮಾಸದ ಆಷಾಢ ನವರಾತ್ರಿ ವಿಶೇಷವಾಗಿ ವಾರಾಹಿಗೆ ಮೀಸಲು.

ಪದೇ ಪದೇ ಕೇಳುವ ಪ್ರಶ್ನೆಗಳು

ವಾರಾಹೀ ಯಾರು?

ಲಲಿತೆಯ ಸೈನ್ಯದ ದಂಡನಾಥೆ, ವರಾಹಮುಖಿ ಮಾತೃದೇವಿ.

ಈ ಸಹಸ್ರನಾಮ ಎಲ್ಲಿಂದ?

ಕೊನೆಯ ಸಾಲು ಹೇಳುವಂತೆ ಉಡ್ಡಾಮರ ತಂತ್ರದಿಂದ.

ಇದನ್ನು ಯಾವಾಗ ಪಠಿಸುತ್ತಾರೆ?

ಶುಕ್ರವಾರ, ಪಂಚಮಿ ಮತ್ತು ಆಷಾಢ ನವರಾತ್ರಿಯಲ್ಲಿ.

ಆರಾಧನೆ ಮತ್ತು ಅಧ್ಯಯನಕ್ಕಾಗಿ ನೀಡಲಾಗಿದೆ, ಭವಿಷ್ಯವಾಣಿಯಾಗಿ ಅಲ್ಲ. ವಾಣಿಜ್ಯೇತರ.