MuhurtaNow

முண்ட³க உபனிஷத்³ - த்ருதீய முண்டக³, ப்ரத²ம காண்ட:³

Vedic · பாரம்பரிய பக்தி நூல்

॥ तृतीय मुंडके प्रथमः खंडः ॥

द्वा सुपर्णा सयुजा सखाया समानं-वृँक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ 1॥

समाने वृक्षे पुरुषो निमग्नोऽनिशया शोचति मुह्यमानः । जुष्टं-यँदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ 2॥

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरंजनः परमं साम्यमुपैति ॥ 3॥

प्रणो ह्येष यः सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी । आत्मक्रीड आत्मरतिः क्रियावा- नेष ब्रह्मविदां-वँरिष्ठः ॥ 4॥

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अंतःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यंति यतयः क्षीणदोषाः ॥ 5॥

सत्यमेव जयते नानृतं सत्येन पंथा विततो देवयानः । येनाऽऽक्रमंत्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥ 6॥

बृहच्च तद् दिव्यमचिंत्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं-विँभाति । दूरात् सुदूरे तदिहांतिके च पश्यंत्विहैव निहितं गुहायाम् ॥ 7॥

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मण वा । ज्ञानप्रसादेन विशुद्धसत्त्व- स्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ 8॥

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पंचधा संविँवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ 9॥

यं-यंँ लोकं मनसा संविँभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं-लोँकं जयते तांश्च कामां- स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ 10॥

॥ इति मुंडकोपनिषदि तृतीयमुंडके प्रथमः खंडः ॥

முண்ட³க உபனிஷத்³ - த்ருதீய முண்டக³, ப்ரத²ம காண்ட:³ பற்றி

This is the first section of the third Mundaka of the Mundaka Upanishad. It opens with the famous image of two birds, close companions, perched on the same tree: one eats the sweet fruit, the other looks on without eating. The first is the individual self, grieving in its helplessness; when it sees the other, the Lord, and his glory, it is freed from sorrow. It says that this Self is attained through truth, austerity, right knowledge and a pure life, and declares: "Truth alone triumphs, not falsehood; by truth is laid the path of the gods."

மூலம்: Atharva Veda, Mundaka Upanishad 3.1

எப்போது பாராயணம் செய்வது: In Upanishad study and Vedic chanting.

உங்களுக்குத் தெரியுமா?

  • Verse 6, "Satyameva jayate", is the national motto of India, inscribed below the Lion Capital emblem.
  • The image of the two birds also appears in the Rig Veda and the Shvetashvatara Upanishad.

அடிக்கடி கேட்கப்படும் கேள்விகள்

What do the two birds stand for?

The individual self and the Lord.

What is India's national motto from this section?

"Satyameva jayate", truth alone triumphs.

How is the Self attained, according to this section?

Through truth, austerity, right knowledge and a pure life.

வழிபாட்டிற்கும் கற்றலுக்குமாக வழங்கப்படுகிறது, கணிப்பாக அல்ல. வணிக நோக்கமற்றது.