MuhurtaNow

நாராயணீயம் த³ஶக 8௦ - ஸ்யமந்தகோபாக்²யானம்

Vishnu · பாரம்பரிய பக்தி நூல்

सत्राजितस्त्वमथ लुब्धवदर्कलब्धं दिव्यं स्यमंतकमणिं भगवन्नयाचीः । तत्कारणं बहुविधं मम भाति नूनं तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥1॥

अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा प्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् । अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात् कपींद्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥2॥

शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं जनानां पीयूषं भवति गुणिनां दोषकणिका । ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥3॥

भवंतमवितर्कयन्नतिवयाः स्वयं जांबवान् मुकुंदशरणं हि मां क इह रोद्धुमित्यालपन् । विभो रघुपते हरे जय जयेत्यलं मुष्टिभि- श्चिरं तव समर्चनं व्यधित भक्तचूडामणिः ॥4॥

बुध्वाऽथ तेन दत्तां नवरमणीं वरमणिं च परिगृह्णन् । अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥5॥

तदनु स खलु ब्रीलालोलो विलोलविलोचनां दुहितरमहो धीमान् भामां गिरैव परार्पिताम् । अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि प्रमुदितमनास्तस्यैवादान्मणिं गहनाशयः ॥6॥

व्रीलाकुलां रमयति त्वयि सत्यभामां कौंतेयदाहकथयाथ कुरून् प्रयाते । ही गांदिनेयकृतवर्मगिरा निपात्य सत्राजितं शतधनुर्मणिमाजहार ॥7॥

शोकात् कुरूनुपगतामवलोक्य कांतां हत्वा द्रुतं शतधनुं समहर्षयस्ताम् । रत्ने सशंक इव मैथिलगेहमेत्य रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥8॥

अक्रूर एष भगवन् भवदिच्छयैव सत्राजितः कुचरितस्य युयोज हिंसाम् । अक्रूरतो मणिमनाहृतवान् पुनस्त्वं तस्यैव भूतिमुपधातुमिति ब्रुवंति ॥9॥

भक्तस्त्वयि स्थिरतरः स हि गांदिनेय- स्तस्यैव कापथमतिः कथमीश जाता । विज्ञानवान् प्रशमवानहमित्युदीर्णं गर्वं ध्रुवं शमयितुं भवता कृतैव ॥10॥

यातं भयेन कृतवर्मयुतं पुनस्त- माहूय तद्विनिहितं च मणिं प्रकाश्य । तत्रैव सुव्रतधरे विनिधाय तुष्यन् भामाकुचांतशयनः पवनेश पायाः ॥11॥

நாராயணீயம் த³ஶக 8௦ - ஸ்யமந்தகோபாக்²யானம் பற்றி

The eightieth dashaka of the Narayaneeyam tells the story of the Syamantaka gem. Krishna asks Satrajit for the divine gem given to him by the Sun, but Satrajit refuses; his brother Prasena wears it on a hunt and is killed by a lion, which is in turn killed by Jambavan. Suspected of taking the gem, Krishna follows the trail into Jambavan's cave and fights him for twenty-eight days, until Jambavan recognises his Lord Rama and gives him the gem and his daughter Jambavati. Satrajit, ashamed, gives Krishna the gem and his daughter Satyabhama; later the gem passes to Akrura, and Krishna leaves it with him.

இயற்றியவர்: Melpathur Narayana Bhattathiri (1560 to 1646)

எப்போது பாராயணம் செய்வது: In daily Narayaneeyam parayana and at Guruvayur.

உங்களுக்குத் தெரியுமா?

  • The Syamantaka story is traditionally recited on Ganesh Chaturthi, as it is said to remove the blame of seeing the moon that night.
  • Jambavan, the bear king, had served Rama in the Ramayana and recognised Krishna as the same Lord.

அடிக்கடி கேட்கப்படும் கேள்விகள்

Who gave Satrajit the Syamantaka gem?

The Sun god.

Whom did Krishna marry in this story?

Jambavati and Satyabhama.

Who wrote the Narayaneeyam?

Melpathur Narayana Bhattathiri, in 1586.

வழிபாட்டிற்கும் கற்றலுக்குமாக வழங்கப்படுகிறது, கணிப்பாக அல்ல. வணிக நோக்கமற்றது.