শ্রী কামাখ্য়া স্তোত্রং
Devi · প্রথাগত ভক্তিপাঠ
जय कामेशि चामुंडे जय भूतापहारिणि । जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ 1 ॥
विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने । भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ 2 ॥
मालाजये जये जंभे भूताक्षि क्षुभितेऽक्षये । महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ 3 ॥
भीमाक्षि भीषणे देवि सर्वभूतक्षयंकरि । कालि च विकरालि च कामेश्वरि नमोऽस्तु ते ॥ 3 ॥
कालि करालविक्रांते कामेश्वरि हरप्रिये । सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ 4 ॥
कामरूपप्रदीपे च नीलकूटनिवासिनि । निशुंभशुंभमथनि कामेश्वरि नमोऽस्तु ते ॥ 5 ॥
कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये । कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ 6 ॥
वपानाढ्यमहावक्त्रे तथा त्रिभुवनेश्वरि । महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ 7 ॥
छागतुष्टे महाभीमे कामाख्ये सुरवंदिते । जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ 8 ॥
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः । अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥ 9 ॥
संवत्सरेण लभते राज्यं निष्कंटकं पुनः । य इदं शृणुयाद्भक्त्या तव देवि समुद्भवम् । सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ॥ 10 ॥
श्रीकामरूपेश्वरि भास्करप्रभेप्रकाशितांभोजनिभायतानने । सुरारिरक्षःस्तुतिपातनोत्सुकेत्रयीमये देवनुते नमामि ॥ 11 ॥
सितासिते रक्तपिशंगविग्रहेरूपाणि यस्याः प्रतिभांति तानि । विकाररूपा च विकल्पितानिशुभाशुभानामपि तां नमामि ॥ 12 ॥
कामरूपसमुद्भूते कामपीठावतंसके । विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ 13 ॥
अव्यक्तविग्रहे शांते संतते कामरूपिणि । कालगम्ये परे शांते कामेश्वरि नमोऽस्तु ते ॥ 14 ॥
या सुषुम्नांतरालस्था चिंत्यते ज्योतिरूपिणी । प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते ॥ 15 ॥
दंष्ट्राकरालवदने मुंडमालोपशोभिते । सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ 16 ॥
चामुंडे च महाकालि कालि कपालहारिणी । पाशहस्ते दंडहस्ते कामेश्वरि नमोऽस्तु ते ॥ 17 ॥
चामुंडे कुलमालास्ये तीक्ष्णदंष्ट्रे महाबले । शवयानस्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ 18 ॥
इति श्री कामाख्या स्तोत्रम् ।
শ্রী কামাখ্য়া স্তোত্রং সম্পর্কে
The Kamakhya Stotram is a hymn to Goddess Kamakhya, each verse ending "Kameshvari namo'stu te": salutations to you, Kameshvari. It hails her as Chamunda who removes evil spirits, present everywhere, the form of the universe, auspicious and pure, three-eyed, fearsome in form yet kind, and the very form of knowledge.
কখন পাঠ করবেন: During the Ambubachi Mela, on Navaratri and Fridays, and in Devi worship.
আপনি কি জানেন?
- The Kamakhya temple on Nilachal hill in Guwahati, Assam, is one of the most revered Shakti Peethas.
- The Ambubachi Mela each June marks the goddess's annual rest, when the temple stays closed for three days.
প্রায়শই জিজ্ঞাসিত প্রশ্ন
Who is Kamakhya?
The Devi worshipped at the Kamakhya temple in Guwahati, one of the great Shakti Peethas.
What is the refrain?
"Kameshvari namo'stu te": salutations to you, Kameshvari.
When is it recited?
During Ambubachi, Navaratri and on Fridays.
উপাসনা ও অধ্যয়নের জন্য প্রদত্ত, ভবিষ্যদ্বাণী হিসেবে নয়। অবাণিজ্যিক।
আরও ভক্তিপাঠ