KYTS 1.1 Ishe Tvorje Tva - Krishna Yajurveda Taittiriya Samhita Patha
Kanda 1 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text
कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे प्रथमः प्रश्नः - दर्शपूर्णमासौ
ओ-न्नमः परमात्मने, श्री महागणपतये नमः, श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑-स्स्थोपा॒यव॑-स्स्थ दे॒वो व॑-स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यद्ध्वमघ्निया देवभा॒ग-मूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑ती-रनमी॒वा अ॑य॒क्ष्मा मा व॑-स्स्ते॒न ई॑शत॒ मा-ऽघशग्ं॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मि-न्गोप॑तौ स्यात ब॒ह्वी-र्यज॑मानस्य प॒शू-न्पा॑हि ॥ 1 ॥ (इ॒षे - त्रिच॑त्वारिग्ंशत् ) (अ. 1)
य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः॒ प्रेय-म॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आ व॑हन्ति क॒वयः॑ पु॒रस्ता᳚-द्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हि-रा॒सदे॑ दे॒वाना᳚-म्परिषू॒तम॑सि व॒र्॒षवृ॑द्धमसि॒ देव॑बर्हि॒र्मा त्वा-ऽ॒न्व-म्मा ति॒र्य-क्पर्व॑ ते राद्ध्यासमाच्छे॒त्ता ते॒ मा रि॑ष॒-न्देव॑बर्हि-श्श॒तव॑ल्शं॒-विँ रो॑ह स॒हस्र॑वल्शा॒ [स॒हस्र॑वल्शाः, वि व॒यग्ं रु॑हेम] 2
वि व॒यग्ं रु॑हेम पृथि॒व्या-स्स॒म्पृचः॑ पाहि सुस॒म्भृता᳚ त्वा॒ सम्भ॑रा॒म्यदि॑त्यै॒ रास्ना॑-ऽसीन्द्रा॒ण्यै स॒न्नह॑न-म्पू॒षा ते᳚ ग्र॒न्थि-ङ्ग्र॑थ्नातु॒ स ते॒ मा-ऽऽ स्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पते᳚-र्मू॒र्ध्ना ह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हि देवङ्ग॒मम॑सि ॥ 3 ॥ (स॒हस्र॑वल्शा - अ॒ष्टात्रिग्ं॑शच्च) (अ. 2)
शुन्ध॑द्ध्व॒-न्दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो घ॒र्मो॑-ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒ दृग्ंह॑स्व॒ मा ह्वा॒-र्वसू॑ना-म्प॒वित्र॑मसि श॒तधा॑रं॒-वँसू॑ना-म्प॒वित्र॑मसि स॒हस्र॑धारग्ं हु॒त-स्स्तो॒कोहु॒तो द्र॒फ्सो᳚ ऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ग्ं॒ सा वि॒श्वायु॒-स्सा वि॒श्वव्य॑चा॒-स्सा वि॒श्वक॑र्मा॒ स-म्पृ॑च्यद्ध्व-मृतावरी-रू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये॒ सोमे॑न॒ त्वा-ऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॒ विष्णो॑ ह॒व्यग्ं र॑क्षस्व ॥ 4 ॥ (सोमे॑ - ना॒ष्टौ च॑) (अ. 3)
कर्म॑णे वा-न्दे॒वेभ्य॑-श्शकेयं॒-वेँषा॑य त्वा॒ प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒-न्धूर्व॒ तं-योँ᳚-ऽस्मा-न्धूर्व॑ति॒ त-न्धू᳚र्व॒यं-वँ॒य-न्धूर्वा॑म॒स्त्व-न्दे॒वाना॑मसि॒ सस्नि॑तम॒-म्पप्रि॑तम॒-ञ्जुष्ट॑तमं॒-वँह्नि॑तम-न्देव॒हूत॑म॒-मह्रु॑तमसि हवि॒र्धान॒-न्दृग्ंह॑स्व॒ मा ह्वा᳚-र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा भेर्मा सं-विँ॑क्था॒ मा त्वा॑ - [मा त्वा᳚, हि॒ग्ं॒सि॒ष॒मु॒रु] 5
हिग्ंसिषमु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚-ऽश्विनो᳚-र्बा॒हुभ्या᳚-म्पू॒ष्णो हस्ता᳚भ्या-म॒ग्नये॒ जुष्ट॒-न्निर्व॑पाम्य॒ग्नीषोमा᳚भ्या-मि॒द-न्दे॒वाना॑मि॒दमु॑ न-स्स॒ह स्फा॒त्यै त्वा॒ नारा᳚त्यै॒ सुव॑र॒भि वि ख्ये॑षं-वैँश्वान॒र-ञ्ज्योति॒-र्दृग्ंह॑न्ता॒-न्दुर्या॒ द्यावा॑पृथि॒व्यो- रु॒र्व॑न्तरि॑क्ष॒ मन्वि॒-ह्यदि॑त्या स्त्वो॒पस्थे॑ सादया॒म्यग्ने॑ ह॒व्यग्ं र॑क्षस्व ॥ 6 ॥ ( मा त्वा॒ - षट्च॑त्वारिग्ंशच्च ) (अ. 4)
दे॒वो व॑-स्सवि॒तो-त्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒-स्सूर्य॑स्य र॒श्मिभि॒रापो॑ देवीरग्रेपुवो अग्रेगु॒वो-ऽग्र॑ इ॒मं-यँ॒ज्ञ-न्न॑य॒ताग्रे॑ य॒ज्ञप॑ति-न्धत्त यु॒ष्मानिन्द्रो॑ ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑-मवृणीद्ध्वं-वृँत्र॒तूर्ये॒ प्रोक्षि॑ता-स्स्था॒ग्नये॑ वो॒ जुष्ट॒-म्प्रोक्षा᳚म्य॒ग्नीषोमा᳚भ्या॒ग्ं॒ शुन्ध॑द्ध्व॒-न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ अव॑धूत॒ग्ं॒ रक्षो-ऽव॑धूता॒ अरा॑त॒यो-ऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा - [प्रति॑ त्वा, पृ॒थि॒वी वे᳚त्त्वधि॒षव॑णमसि] 7
पृथि॒वी वे᳚त्त्वधि॒षव॑णमसि वानस्प॒त्य-म्प्रति॒ त्वा-ऽदि॑त्या॒स्त्वग्वे᳚त्त्व॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑न-न्दे॒ववी॑तये त्वा गृह्णा॒म्यद्रि॑रसि वानस्प॒त्य-स्स इ॒द-न्दे॒वेभ्यो॑ ह॒व्यग्ं सु॒शमि॑ शमि॒ष्वेष॒मा व॒दोर्ज॒मा व॑द द्यु॒मद्व॑दत व॒यग्ं स॑ङ्घा॒त-ञ्जे᳚ष्म व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धं-वेँत्तु॒ परा॑पूत॒ग्ं॒ रक्षः॒ परा॑पूता॒ अरा॑तयो॒ रक्ष॑सा-म्भा॒गो॑ ऽसि वा॒युर्वो॒ वि वि॑नक्तु दे॒वो व॑-स्सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु ॥ 8 ॥ ( त्वा॒ - भा॒ग - एका॑दश च ) (अ. 5)
अव॑धूत॒ग्ं॒ रक्षो-ऽव॑धूता॒ अरा॑त॒यो-ऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा पृथि॒वीवे᳚त्तु दि॒व-स्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वा-ऽदि॑त्या॒स्त्वग्वे᳚त्तु धि॒षणा॑-ऽसि पर्व॒त्या प्रति॑ त्वा दि॒व-स्स्क॑म्भ॒निर्वे᳚त्तु धि॒षणा॑-ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे᳚त्तु दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚-ऽश्विनो᳚-र्बा॒हुभ्या᳚-म्पू॒ष्णोहस्ता᳚भ्या॒मधि॑ वपामिधा॒न्य॑मसि धिनु॒हि दे॒वा-न्प्रा॒णाय॑ त्वा ऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षेधा-न्दे॒वो व॑-स्सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु ॥ 9 ॥ (प्रा॒णाय॑ त्वा॒ - पञ्च॑दश च) (अ. 6)
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छापा᳚ग्ने॒ ऽग्निमा॒माद॑-ञ्जहि॒ निष्क्र॒व्यादग्ं॑ से॒धा-ऽऽदे॑व॒यजं॑-वँह॒ निर्द॑ग्ध॒ग्ं॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तयो ध्रु॒वम॑सि पृथि॒वी-न्दृ॒ग्ं॒हा-ऽऽयु॑-र्दृग्ंह प्र॒जा-न्दृग्ं॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒र्त्रम॑स्य॒न्तरि॑क्ष-न्दृग्ंह प्रा॒ण-न्दृग्ं॑हापा॒न-न्दृग्ं॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒रुण॑मसि॒ दिव॑-न्दृग्ंह॒ चक्षु॑- [चक्षुः॑, दृ॒ग्ं॒ह॒ श्रोत्र॑-न्दृग्ंह] 10
र्दृग्ंह॒ श्रोत्र॑-न्दृग्ंह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ धर्मा॑सि॒ दिशो॑ दृग्ंह॒ योनि॑-न्दृग्ंह प्र॒जा-न्दृग्ं॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ चित॑-स्स्थ प्र॒जाम॒स्मै र॒यिम॒स्मै स॑जा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ भृगू॑णा॒मङ्गि॑रसा॒-न्तप॑सा तप्यद्ध्वं॒-याँनि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑ वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ॥ 11 ॥ (चक्षु॑ - र॒ष्टाच॑त्वारिग्ंशच्च) (अ. 7)
सं-वँ॑पामि॒ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न॒ सग्ं रे॒वती॒-र्जग॑तीभि॒-र्मधु॑मती॒-र्मधु॑मतीभि-स्सृज्यद्ध्वम॒द्भ्यः परि॒ प्रजा॑ता-स्स्थ॒ सम॒द्भिः पृ॑च्यद्ध्व॒-ञ्जन॑यत्यै त्वा॒ सं-यौँ᳚म्य॒ग्नये᳚ त्वा॒-ऽग्नीषोमा᳚भ्या-म्म॒खस्य॒ शिरो॑-ऽसि घ॒र्मो॑-ऽसि वि॒श्वायु॑रु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒-न्त्वच॑-ङ्गृह्णीष्वा॒न्तरि॑त॒ग्ं॒ रक्षो॒-ऽन्तरि॑ता॒ अरा॑तयोदे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॑ष्ठे॒ अधि॒ नाके॒-ऽग्निस्ते॑ त॒नुव॒-म्मा-ऽति॑ धा॒गग्ने॑ ह॒व्यग्ं र॑क्षस्व॒ स-म्ब्रह्म॑णा पृच्यस्वैक॒ताय॒ स्वाहा᳚ द्वि॒ताय॒ स्वाहा᳚ त्रि॒ताय॒ स्वाहा᳚ ॥ 12 ॥ (स॒वि॒ता - द्वाविग्ं॑शतिश्च) (अ. 8)
आ द॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण-स्स॒हस्र॑भृष्टि-श्श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जाः॒ पृथि॑वि देवयज॒ - न्योष॑द्ध्यास्ते॒ मूल॒-म्मा हिग्ं॑सिष॒-मप॑हतो॒-ऽररुः॑ पृथि॒व्यै व्र॒ज-ङ्ग॑च्छ गो॒स्थानं॒-वँर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्या᳚-म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒-ऽररुः॑ पृथि॒व्यै दे॑व॒यज॑न्यै व्र॒जं- [व्र॒जम्, ग॒च्छ॒ गो॒स्थानं॒-वँर्ष॑तु] 13
ग॑च्छ गो॒स्थानं॒-वँर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्या᳚-म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒-ऽररुः॑ पृथि॒व्या अदे॑वयजनो व्र॒ज-ङ्ग॑च्छ गो॒स्थानं॒-वँर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्या᳚-म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मस्तमतो॒ मा- [मा, मौ॒ग॒ररु॑स्ते॒ दिव॒-म्मा] 14
मौ॑ग॒ररु॑स्ते॒ दिव॒-म्मा स्का॒न्॒. वस॑वस्त्वा॒ परि॑ गृह्णन्तु गाय॒त्रेण॒ छन्द॑सारु॒द्रास्त्वा॒ परि॑ गृह्णन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा-ऽऽदि॒त्यास्त्वा॒ परि॑ गृह्णन्तु॒ जाग॑तेन॒ छन्द॑सा दे॒वस्य॑ सवि॒तु-स्स॒वे कर्म॑ कृण्वन्ति वे॒धस॑ ऋ॒तम॑स्यृत॒सद॑न-मस्यृत॒श्रीर॑सि॒ धा अ॑सि स्व॒धा अ॑स्यु॒र्वी चासि॒ वस्वी॑ चासि पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि-न्नुदा॒दाय॑ पृथि॒वी-ञ्जी॒रदा॑नु॒र्यामैर॑यन् च॒न्द्रम॑सि स्व॒धाभि॒स्ता-न्धीरा॑सो अनु॒दृश्य॑ यजन्ते ॥ 15 ॥ (दे॒व॒यज॑न्यै व्र॒जं - तमतो॒ मा - वि॑रफ्शि॒न् - नेका॑दश च) (अ. 9)
प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ ऽग्ने-र्व॒-स्तेजि॑ष्ठेन॒ तेज॑सा॒ नि-ष्ट॑पामि गो॒ष्ठ-म्मा निर्मृ॑क्षं-वाँ॒जिन॑-न्त्वा सपत्नसा॒हग्ं स-म्मा᳚र्ज्मि॒ वाच॑-म्प्रा॒ण-ञ्चक्षु॒-श्श्रोत्र॑-म्प्र॒जां-योँनि॒-म्मा निर्मृ॑क्षं-वाँ॒जिनी᳚-न्त्वा सपत्नसा॒हीग्ं स-म्मा᳚र्ज्म्या॒शासा॑ना सौमन॒स-म्प्र॒जाग्ं सौभा᳚ग्य-न्त॒नूम् । अ॒ग्नेरनु॑व्रता भू॒त्वा स-न्न॑ह्ये सुकृ॒ताय॒ कम् ॥ सु॒प्र॒जस॑स्त्वा व॒यग्ं सु॒पत्नी॒रुप॑- [सु॒पथ्नी॒रुप॑, से॒दि॒मि॒ ।] 16
सेदिम । अग्ने॑ सपत्न॒दम्भ॑न॒-मद॑ब्धासो॒ अदा᳚भ्यम् ॥ इ॒मं-विँष्या॑मि॒ वरु॑णस्य॒ पाशं॒ ँय-मब॑द्ध्नीत सवि॒ता सु॒केतः॑ । धा॒तु-श्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒न-म्मे॑ स॒ह पत्या॑ करोमि ॥ समायु॑षा॒ सम्प्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पुनः॑ । स-म्पत्नी॒ पत्या॒-ऽह-ङ्ग॑च्छे॒ समा॒त्मा त॒नुवा॒ मम॑ ॥ म॒ही॒ना-म्पयो॒-ऽस्योष॑धीना॒ग्ं॒ रस॒स्तस्य॒ ते-ऽक्षी॑यमाणस्य॒ नि- [निः, व॒पा॒मि॒ म॒ही॒नां] 17
र्व॑पामि मही॒ना-म्पयो॒-ऽस्योष॑धीना॒ग्ं॒ रसो-ऽद॑ब्धेन त्वा॒ चक्षु॒षा-ऽवे᳚क्षे सुप्रजा॒स्त्वाय॒ तेजो॑-ऽसि॒ तेजो-ऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा वि नै॑द॒ग्ने-र्जि॒ह्वा-ऽसि॑ सु॒भूर्दे॒वाना॒-न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑-ऽसि दे॒वो व॑-स्सवि॒तो-त्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒-स्सूर्य॑स्य र॒श्मिभि॑-श्शु॒क्र-न्त्वा॑ शु॒क्राया॒-न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒-ऽर्चिषि॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि ॥ 18 ॥ (उप॒ - नी - र॒श्मिभि॑-श्शु॒क्रग्ं - षोड॑श च) (अ. 10)
कृष्णो᳚-ऽस्याखरे॒ष्ठो᳚-ऽग्नये᳚ त्वा॒ स्वाहा॒ वेदि॑रसि ब॒र्॒हिषे᳚ त्वा॒ स्वाहा ॑ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑ दि॒वे त्वा॒-ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा᳚ स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर्हि॒षद्भ्य॑ ऊ॒र्जा पृ॑थि॒वी-ङ्ग॑च्छत॒ विष्णो॒-स्स्तूपो॒-ऽस्यूर्णा᳚म्रदस-न्त्वा स्तृणामि स्वास॒स्थ-न्दे॒वेभ्यो॑ गन्ध॒र्वो॑-ऽसि वि॒श्वाव॑सु॒-र्विश्व॑स्मा॒दीष॑तो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त इन्द्र॑स्य बा॒हुर॑सि॒- [बा॒हुर॑सि, दक्षि॑णो॒] 19 दक्षि॑णो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तो मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑ धत्ता-न्ध्रु॒वेण॒ धर्म॑णा॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त-स्सूर्य॑स्त्वा पु॒रस्ता᳚-त्पातु॒ कस्या᳚श्चिद॒भिश॑स्त्या वी॒तिहो᳚त्र-न्त्वा कवे द्यु॒मन्त॒ग्ं॒ समि॑धीम॒ह्यग्ने॑ बृ॒हन्त॑मद्ध्व॒रे वि॒शो य॒न्त्रे स्थो॒ वसू॑नाग्ं रु॒द्राणा॑-मादि॒त्याना॒ग्ं॒ सद॑सि सीद जु॒हूरु॑प॒भृ-द्ध्रु॒वा-ऽसि॑ घृ॒ताची॒ नाम्ना᳚ प्रि॒येण॒ नाम्ना᳚ प्रि॒ये सद॑सि सीदै॒ता अ॑सदन्-थ्सुकृ॒तस्य॑ लो॒के ता वि॑ष्णो पाहि पा॒हि य॒ज्ञ-म्पा॒हि य॒ज्ञप॑ति-म्पा॒हि मां-यँ॑ज्ञ॒निय᳚म् ॥ 20 ॥ (बा॒हुर॑सि - प्रि॒ये सद॑सि॒ - पञ्च॑दश च) (अ. 11)
भुव॑नमसि॒ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑रि॒द-न्नमः॑ । जुह्वेह्य॒ग्निस्त्वा᳚ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिषं॒-विँ जि॑हाथा॒-म्मा मा॒ स-न्ता᳚प्तं-लोँ॒क-म्मे॑ लोककृतौ कृणुतं॒-विँष्णो॒-स्स्थान॑मसी॒त इन्द्रो॑ अकृणो-द्वी॒र्या॑णि समा॒रभ्यो॒र्ध्वो अ॑द्ध्व॒रो दि॑वि॒स्पृश॒मह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒-रिन्द्रा॑वा॒न्-थ्स्वाहा॑ बृ॒हद्भाः पा॒हि मा᳚-ऽग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भज म॒खस्य॒ शिरो॑-ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ताम् ॥ 21 ॥ (अह्रु॑त॒ - एक॑विग्ंशतिश्च) (अ. 12)
वाज॑स्य मा प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒ग्ं॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राग्ं अकः ॥ उ॒द्ग्रा॒भ-ञ्च॑ निग्रा॒भ-ञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यताम् ॥ वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वा-ऽऽदि॒त्येभ्य॑स्त्वा॒-ऽक्तग्ं रिहा॑णा वि॒यन्तु॒ वयः॑ ॥ प्र॒जां-योँनि॒-म्मा निर्मृ॑क्ष॒मा प्या॑यन्ता॒माप॒ ओष॑धयो म॒रुता॒-म्पृष॑तय-स्स्थ॒ दिवं॑- [दिव᳚म्, ग॒च्छ॒ ततो॑ नो॒] 22 गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य । आ॒यु॒ष्पा अ॑ग्ने॒-ऽस्यायु॑र्मे पाहि चक्षु॒ष्पा अ॑ग्ने-ऽसि॒ चक्षु॑र्मे पाहि ध्रु॒वा-ऽसि॒ य-म्प॑रि॒धि-म्प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑-र्वी॒यमा॑णः । त-न्त॑ ए॒तमनु॒ जोष॑-म्भरामि॒ नेदे॒ष त्वद॑पचे॒तया॑तै य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑तग्ं सग्ग्स्रा॒वभा॑गा-स्स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठा ब॑र्हि॒षद॑श्च [ ] 23
दे॒वा इ॒मां-वाँच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मि-न्ब॒र्॒हिषि॑ मादयद्ध्वम॒ग्ने-र्वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त-न्धु॒रि ध॒र्यौ॑ पात॒मग्ने॑ ऽदब्धायो ऽशीततनो पा॒हि मा॒-ऽद्य दि॒वः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दवि॑ष-न्नः पि॒तु-ङ्कृ॑णु सु॒षदा॒ योनि॒ग्ग्॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुंविँ॒त्त्वा गा॒तु मि॑त॒ मन॑सस्पत इ॒म-न्नो॑ देव दे॒वेषु॑ य॒ज्ञग्ग् स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥ 24 ॥ (दिवं॑ - च - वि॒त्त्वा गा॒तुं - त्रयो॑दश च) (अ. 13)
उ॒भा वा॑मिन्द्राग्नी आहु॒वद्ध्या॑ उ॒भा राध॑स-स्स॒ह मा॑द॒यद्ध्यै᳚ । उ॒भा दा॒तारा॑वि॒षाग्ं र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ अश्र॑व॒ग्ं॒ हि भू॑रि॒दाव॑त्तरा वां॒-विँजा॑मातुरु॒त वा॑ घा स्या॒लात् । अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा᳚ग्नी॒ स्तोम॑-ञ्जनयामि॒ नव्य᳚म् ॥ इन्द्रा᳚ग्नी नव॒ति-म्पुरो॑ दा॒सप॑त्नीरधूनुतम् । सा॒कमेके॑न॒ कर्म॑णा ॥ शुचि॒-न्नु स्तोम॒-न्नव॑जात-म॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् ॥ 25 ॥
उ॒भा हि वाग्ं॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजग्ं॑ स॒द्य उ॑श॒ते धेष्ठा᳚ ॥ व॒यमु॑ त्वा पथस्पते॒ रथ॒-न्न वाज॑सातये । धि॒ये पू॑षन्नयुज्महि ॥ प॒थस्प॑थः॒ परि॑पतिं-वँच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम् । सनो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धिय॑न्धियग्ं सीषधाति॒ प्र पू॒षा ॥ क्षेत्र॑स्य॒ पति॑ना व॒यग्ं हि॒तेने॑व जयामसि । गामश्व॑-म्पोषयि॒त्न्वा स नो॑ [स नः॑, मृ॒डा॒ती॒दृशे᳚ ।] 26
मृडाती॒दृशे᳚ ॥ क्षेत्र॑स्य पते॒ मधु॑मन्त-मू॒र्मि-न्धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुत॑-ङ्घृ॒तमि॑व॒ सुपू॑त-मृ॒तस्य॑ नः॒ पत॑यो मृडयन्तु ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्. विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठा-न्ते॒ नम॑उक्तिं-विँधेम ॥ आ दे॒वाना॒मपि॒ पन्था॑-मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम् । अ॒ग्नि-र्वि॒द्वान्-थ्स य॑जा॒- [स य॑जात्, सेदु॒ होता॒ सो] 27
थ्सेदु॒ होता॒ सो अ॑द्ध्व॒रान्-थ्स ऋ॒तून् क॑ल्पयाति ॥ यद्वाहि॑ष्ठ॒-न्तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥ अग्ने॒ त्व-म्पा॑रया॒ नव्यो॑ अ॒स्मान्-थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं-योः ँ॥ त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं-यँ॒ज्ञेष्वीड्यः॑ ॥ यद्वो॑ व॒य-म्प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषा᳚-न्देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्ट-द्विश्व॒मा पृ॑णाति वि॒द्वान्. येभि॑-र्दे॒वाग्ं ऋ॒तुभिः॑ क॒ल्पया॑ति ॥ 28 ॥ (जु॒षेथा॒मा - स नो॑ - यजा॒ - दा - त्रयो॑विग्ंशतिश्च) (अ. 14)
(इ॒षे त्वा॑ - य॒ज्ञस्य॒ - शुन्ध॑ध्वं॒ - कर्म॑णे वां - दे॒वो-ऽव॑धूतं॒ - धुष्टिः॒ - सं-वँ॑पा॒- म्या द॑दे॒ - प्रत्यु॑ष्टं॒ - कृष्णो॑-ऽसि॒ - भुव॑नमसि॒ - वाज॑स्यो॒भा वां॒ - चतु॑र्दश )
(इ॒षे - दृग्ं॑ह॒ - भुव॑न - म॒ष्टाविग्ं॑शतिः )
(इ॒षे त्वा॑, क॒ल्पया॑ति)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-म्प्रथमकाण्डे प्रथमः प्रश्न-स्समाप्तः ॥
About KYTS 1.1 Ishe Tvorje Tva - Krishna Yajurveda Taittiriya Samhita Patha
This is the first prashna of the first kanda of the Taittiriya Samhita, in plain recitation: the very opening of the Krishna Yajur Veda. It begins "Ishe tva, urje tva": for nourishment I take you, for strength I take you, words spoken while cutting a branch for the rite. The text describes this prashna as "darsha purnamasau", the mantras for the new-moon and full-moon sacrifices, the model for many other Vedic rites.
Source: Krishna Yajur Veda, Taittiriya Samhita 1.1
When to chant: At the start of Yajur Veda study, in daily Vedic recitation, and in Veda patashalas.
Did you know?
- "Ishe tva urje tva" are the first words of the Krishna Yajur Veda, chanted at the start of its recitation.
- The darsha (new moon) and purnamasa (full moon) sacrifices are the basic model (prakriti) on which many other Vedic rites are built.
Frequently asked questions
What are the first words of the Krishna Yajur Veda?
"Ishe tva, urje tva": for nourishment, for strength.
What is this prashna about?
The new-moon and full-moon sacrifices (darsha purnamasa).
Which part of the Taittiriya Samhita is this?
Kanda 1, prashna 1.
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts