MuhurtaNow

ಶ್ರೀ ದುರ್ಗಾ ನಕ್ಷತ್ರ ಮಾಲಿಕಾ ಸ್ತುತಿ

Devi · ಸಾಂಪ್ರದಾಯಿಕ ಭಕ್ತಿ ಪಠ್ಯ

विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥

यशोदागर्भसंभूतां नारायणवरप्रियाम् । नंदगोपकुलेजातां मंगल्यां कुलवर्धनीम् ॥ 2 ॥

कंसविद्रावणकरीं असुराणां क्षयंकरीम् । शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ 3 ॥

वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥ 4 ॥

भारावतरणे पुण्ये ये स्मरंति सदाशिवाम् । तान्वै तारयते पापात् पंकेगामिव दुर्बलाम् ॥ 5 ॥

स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः । आमंत्र्य दर्शनाकांक्षी राजा देवीं सहानुजः ॥ 6 ॥

नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । बालार्क सदृशाकारे पूर्णचंद्रनिभानने ॥ 7 ॥

चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे । मयूरपिंछवलये केयूरांगदधारिणि ॥ 8 ॥

भासि देवि यदा पद्मा नारायणपरिग्रहः । स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ 9 ॥

कृष्णच्छविसमा कृष्णा संकर्षणसमानना । बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ 10 ॥

पात्री च पंकजी कंठी स्त्री विशुद्धा च या भुवि । पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ 11 ॥

कुंडलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । चंद्रविस्पार्धिना देवि मुखेन त्वं विराजसे ॥ 12 ॥

मुकुटेन विचित्रेण केशबंधेन शोभिना । भुजंगाऽभोगवासेन श्रोणिसूत्रेण राजता ॥ 13 ॥

भ्राजसे चावबद्धेन भोगेनेवेह मंदरः । ध्वजेन शिखिपिंछानां उच्छ्रितेन विराजसे ॥ 14 ॥

कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया । तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ 15 ॥

त्रैलोक्य रक्षणार्थाय महिषासुरनाशिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ 16 ॥

जया त्वं विजया चैव संग्रामे च जयप्रदा । ममाऽपि विजयं देहि वरदा त्वं च सांप्रतम् ॥ 17 ॥

विंध्ये चैव नगश्रेष्टे तव स्थानं हि शाश्वतम् । कालि कालि महाकालि सीधुमांस पशुप्रिये ॥ 18 ॥

कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि । भारावतारे ये च त्वां संस्मरिष्यंति मानवाः ॥ 19 ॥

प्रणमंति च ये त्वां हि प्रभाते तु नरा भुवि । न तेषां दुर्लभं किंचित् पुत्रतो धनतोऽपि वा ॥ 20 ॥

दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः । कांतारेष्ववपन्नानां मग्नानां च महार्णवे ॥ 21 ॥ (दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम)

जलप्रतरणे चैव कांतारेष्वटवीषु च । ये स्मरंति महादेवीं न च सीदंति ते नराः ॥ 22 ॥

त्वं कीर्तिः श्रीर्धृतिः सिद्धिः ह्रीर्विद्या संततिर्मतिः । संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिः क्षमा दया ॥ 23 ॥

नृणां च बंधनं मोहं पुत्रनाशं धनक्षयम् । व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ 24 ॥

सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् । प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ 25 ॥

त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः । शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ 26 ॥

एवं स्तुता हि सा देवी दर्शयामास पांडवम् । उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ 27 ॥

शृणु राजन् महाबाहो मदीयं वचनं प्रभो । भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥ 28 ॥

मम प्रसादान्निर्जित्य हत्वा कौरव वाहिनीम् । राज्यं निष्कंटकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ 29 ॥

भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् । मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति ॥ 30 ॥

ये च संकीर्तयिष्यंति लोके विगतकल्मषाः । तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् ॥ 31 ॥

प्रवासे नगरे चापि संग्रामे शत्रुसंकटे । अटव्यां दुर्गकांतारे सागरे गहने गिरौ ॥ 32 ॥

ये स्मरिष्यंति मां राजन् यथाहं भवता स्मृता । न तेषां दुर्लभं किंचिदस्मिन् लोके भविष्यति ॥ 33 ॥

य इदं परमस्तोत्रं भक्त्या शृणुयाद्वा पठेत वा । तस्य सर्वाणि कार्याणि सिध्धिं यास्यंति पांडवाः ॥ 34 ॥

मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् । न प्रज्ञास्यंति कुरवः नरा वा तन्निवासिनः ॥ 35 ॥

इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम् । रक्षां कृत्वा च पांडूनां तत्रैवांतरधीयत ॥ 38 ॥

ಶ್ರೀ ದುರ್ಗಾ ನಕ್ಷತ್ರ ಮಾಲಿಕಾ ಸ್ತುತಿ ಬಗ್ಗೆ

ದುರ್ಗಾ ನಕ್ಷತ್ರಮಾಲಿಕಾ ಸ್ತುತಿ ಪಾಂಡವರು ಅಜ್ಞಾತವಾಸಕ್ಕಾಗಿ ವಿರಾಟನಗರವನ್ನು ಪ್ರವೇಶಿಸುವಾಗ ಯುಧಿಷ್ಠಿರ ದುರ್ಗೆಗೆ ಅರ್ಪಿಸಿದ ಸ್ತೋತ್ರ. ಯಶೋದೆಯ ಗರ್ಭದಿಂದ ಜನಿಸಿದ, ನಾರಾಯಣನಿಗೆ ಪ್ರಿಯಳಾದ, ನಂದಗೋಪನ ಕುಲದಲ್ಲಿ ಹುಟ್ಟಿದ, ಮಂಗಳ ತರುವ ದೇವಿಯಾಗಿ ಅವಳನ್ನು ಸ್ತುತಿಸುತ್ತಾನೆ; ಪ್ರಸನ್ನಳಾದ ದೇವಿ ಪ್ರತ್ಯಕ್ಷಳಾಗಿ ಪಾಂಡವರಿಗೆ ಜಯ ಮತ್ತು ರಕ್ಷಣೆಯನ್ನು ವಾಗ್ದಾನ ಮಾಡಿ ಅಂತರ್ಧಾನಳಾಗುತ್ತಾಳೆ.

ಮೂಲ: ಮಹಾಭಾರತ, ವಿರಾಟಪರ್ವ

ಯಾವಾಗ ಪಠಿಸಬೇಕು: ನವರಾತ್ರಿಯಲ್ಲಿ, ದುರ್ಗಾಷ್ಟಮಿಯಂದು, ಮಂಗಳವಾರ ಮತ್ತು ಶುಕ್ರವಾರಗಳಲ್ಲಿ, ಮತ್ತು ಕಠಿಣ ಕಾರ್ಯದ ಮುನ್ನ.

ನಿಮಗೆ ಗೊತ್ತೇ?

  • ಇದು ಮಹಾಭಾರತದ ವಿರಾಟಪರ್ವದಿಂದ, ಪಾಂಡವರ ವನವಾಸದ ಹದಿಮೂರನೇ ವರ್ಷದ ಆರಂಭದಲ್ಲಿ ಬರುತ್ತದೆ.
  • "ನಕ್ಷತ್ರಮಾಲಿಕಾ" ಎಂದರೆ ನಕ್ಷತ್ರಗಳ ಹಾರ: ಸ್ತೋತ್ರದಲ್ಲಿ ಸುಮಾರು ನಕ್ಷತ್ರಗಳಷ್ಟೇ ಶ್ಲೋಕಗಳಿವೆ.
  • ದೇವಕಿಗೆ ಕೃಷ್ಣ ಜನಿಸಿದ ರಾತ್ರಿ ಯಶೋದೆಗೆ ಜನಿಸಿದ ಯೋಗಮಾಯೆಯಾಗಿ ಇದು ದೇವಿಯನ್ನು ಹೆಸರಿಸುತ್ತದೆ.

ಪದೇ ಪದೇ ಕೇಳುವ ಪ್ರಶ್ನೆಗಳು

ಈ ಸ್ತೋತ್ರವನ್ನು ಹಾಡಿದವರು ಯಾರು?

ವಿರಾಟನಗರ ಪ್ರವೇಶಿಸುವಾಗ ಹಿರಿಯ ಪಾಂಡವ ಯುಧಿಷ್ಠಿರ.

ಇದು ಎಲ್ಲಿದೆ?

ಮಹಾಭಾರತದ ವಿರಾಟಪರ್ವದಲ್ಲಿ.

ದೇವಿ ಏನನ್ನು ವಾಗ್ದಾನ ಮಾಡಿದಳು?

ಪಾಂಡವರಿಗೆ ಜಯ ಮತ್ತು ರಕ್ಷಣೆ.

ಆರಾಧನೆ ಮತ್ತು ಅಧ್ಯಯನಕ್ಕಾಗಿ ನೀಡಲಾಗಿದೆ, ಭವಿಷ್ಯವಾಣಿಯಾಗಿ ಅಲ್ಲ. ವಾಣಿಜ್ಯೇತರ.