MuhurtaNow

ಶ್ರೀಮದ್ಭಗವದ್ಗೀತಾ ಮೂಲಂ - ಚತುರ್ದಶೋಽಧ್ಯಾಯಃ

Sri Krishna · ಸಾಂಪ್ರದಾಯಿಕ ಭಕ್ತಿ ಪಠ್ಯ

ॐ श्री परमात्मने नमः अथ चतुर्दशोऽध्यायः । गुणत्रयविभागयोगः

श्रीभगवानुवाच

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ 1

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायंते प्रलये न व्यथंति च ॥ 2 ॥

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥ 3 ॥

सर्वयोनिषु कौंतेय मूर्तयः संभवंति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ 4 ॥

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नंति महाबाहो देहे देहिनमव्ययम् ॥ 5 ॥

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसंगेन बध्नाति ज्ञानसंगेन चानघ ॥ 6 ॥

रजो रागात्मकं विद्धि तृष्णासंगसमुद्भवम् । तन्निबध्नाति कौंतेय कर्मसंगेन देहिनम् ॥ 7 ॥

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ 8 ॥

सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥ 9 ॥

रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ 10 ॥

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ 11 ॥

लोभः प्रवृत्तिरारंभः कर्मणामशमः स्पृहा । रजस्येतानि जायंते विवृद्धे भरतर्षभ ॥ 12 ॥

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायंते विवृद्धे कुरुनंदन ॥ 13 ॥

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ 14 ॥

रजसि प्रलयं गत्वा कर्मसंगिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ 15 ॥

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ 16 ॥

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ 17 ॥

ऊर्ध्वं गच्छंति सत्त्वस्था मध्ये तिष्ठंति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छंति तामसाः ॥ 18 ॥

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ 19 ॥

गुणानेतानतीत्य त्रींदेही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ 20 ॥

अर्जुन उवाच

कैर्लिंगैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ 21

श्रीभगवानुवाच

प्रकाशं च प्रवृत्तिं च मोहमेव च पांडव । त द्वेष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति ॥ 22

उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तंत इत्येव योऽवतिष्ठति नेंगते ॥ 23 ॥

समदुःखसुखः स्वस्थः समलोष्टाश्मकांचनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिंदात्मसंस्तुतिः ॥ 24 ॥

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारंभपरित्यागी गुणातीतः स उच्यते ॥ 25 ॥

मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ 26 ॥

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकांतिकस्य च ॥ 27 ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥14 ।

ಶ್ರೀಮದ್ಭಗವದ್ಗೀತಾ ಮೂಲಂ - ಚತುರ್ದಶೋಽಧ್ಯಾಯಃ ಬಗ್ಗೆ

ಭಗವದ್ಗೀತೆಯ ಹದಿನಾಲ್ಕನೇ ಅಧ್ಯಾಯ ಗುಣತ್ರಯವಿಭಾಗಯೋಗ ಕೃಷ್ಣನ ಭರವಸೆಯಿಂದ ಆರಂಭ: "ಯಾವುದನ್ನು ಅರಿತು ಮುನಿಗಳು ಪರಮಸಿದ್ಧಿ ಪಡೆದರೋ ಆ ಜ್ಞಾನಗಳಲ್ಲಿ ಉತ್ತಮ ಜ್ಞಾನವನ್ನು ಮತ್ತೆ ಹೇಳುತ್ತೇನೆ." ಮಹದ್ಬ್ರಹ್ಮ (ಪ್ರಕೃತಿ) ಅವನ ಯೋನಿ, ಅದರಲ್ಲಿ ಅವನು ಬೀಜವಿಡುತ್ತಾನೆ, ಅವನೇ ಸರ್ವಭೂತಗಳ ತಂದೆ. ಪ್ರಕೃತಿಯ ಮೂರು ಗುಣಗಳು ಸತ್ತ್ವ, ರಜಸ್ಸು, ತಮಸ್ಸು ಜೀವವನ್ನು ದೇಹಕ್ಕೆ ಬಂಧಿಸುತ್ತವೆ: ಸತ್ತ್ವ ಸುಖ ಜ್ಞಾನಾಸಕ್ತಿಯಿಂದ, ರಜಸ್ಸು ತೃಷ್ಣೆ ಕರ್ಮಗಳಿಂದ, ತಮಸ್ಸು ಮೋಹ ಆಲಸ್ಯಗಳಿಂದ. ಮೂರನ್ನೂ ಮೀರಿ ಮಾನಾಪಮಾನ, ಮಿತ್ರಾರಿಗಳಲ್ಲಿ ಅಲುಗದೆ ಅಚಲ ಭಕ್ತಿಯಿಂದ ಭಗವಂತನನ್ನು ಸೇವಿಸುವವನು ಬ್ರಹ್ಮಭಾವಕ್ಕೆ ಯೋಗ್ಯನಾಗುತ್ತಾನೆ.

ಮೂಲ: ಮಹಾಭಾರತ, ಭೀಷ್ಮಪರ್ವ (ಭಗವದ್ಗೀತೆ, ೧೪ನೇ ಅಧ್ಯಾಯ)

ಯಾವಾಗ ಪಠಿಸಬೇಕು: ದಿನನಿತ್ಯದ ಗೀತಾಪಠಣದಲ್ಲಿ, ಗೀತಾಜಯಂತಿ ಮತ್ತು ಏಕಾದಶಿಯಂದು.

ನಿಮಗೆ ಗೊತ್ತೇ?

  • ೪ನೇ ಶ್ಲೋಕ ಭಗವಂತನನ್ನು ಎಲ್ಲ ಯೋನಿಗಳಿಂದ ಜನಿಸಿದ ಜೀವಿಗಳ "ಬೀಜಪ್ರದ ತಂದೆ" ಎನ್ನುತ್ತದೆ.
  • ೨೨ ರಿಂದ ೨೫ನೇ ಶ್ಲೋಕಗಳು ಮೂರು ಗುಣಗಳನ್ನು ಮೀರಿದ ಗುಣಾತೀತನನ್ನು ವರ್ಣಿಸುತ್ತವೆ.

ಪದೇ ಪದೇ ಕೇಳುವ ಪ್ರಶ್ನೆಗಳು

ಆರಂಭದಲ್ಲಿ ಕೃಷ್ಣ ಏನು ಭರವಸೆ ನೀಡುತ್ತಾನೆ?

ಜ್ಞಾನಗಳಲ್ಲಿ ಉತ್ತಮ ಜ್ಞಾನ.

ಸತ್ತ್ವ ಹೇಗೆ ಬಂಧಿಸುತ್ತದೆ?

ಸುಖ ಜ್ಞಾನಾಸಕ್ತಿಯಿಂದ.

ಯಾರು ಬ್ರಹ್ಮಭಾವಕ್ಕೆ ಯೋಗ್ಯ?

ಅಚಲ ಭಕ್ತಿಯಿಂದ ಗುಣಗಳನ್ನು ಮೀರಿದವನು.

ಆರಾಧನೆ ಮತ್ತು ಅಧ್ಯಯನಕ್ಕಾಗಿ ನೀಡಲಾಗಿದೆ, ಭವಿಷ್ಯವಾಣಿಯಾಗಿ ಅಲ್ಲ. ವಾಣಿಜ್ಯೇತರ.