കഠോപനിഷദ് - അധ്യായ 1, വൡ 3
Vedic · പരമ്പരാഗത ഭക്തിഗ്രന്ഥം
अध्याय 1 वल्ली 3
ऋतं पिबंतौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे। छायातपौ ब्रह्मविदो वदंति पंचाग्नयो ये च त्रिणाचिकेताः ॥1॥
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्। अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥2॥
आत्मानं रथिनं-विँद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं-विँद्धि मनः प्रग्रहमेव च ॥3॥
इंद्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेंद्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥4॥
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा। तस्येंद्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥5॥
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा। तस्येंद्रियाणि वश्यानि सदश्वा इव सारथेः ॥6॥
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः। न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥7॥
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः। स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥8॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥9॥
इंद्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥10॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥11॥
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥12॥
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छांत आत्मनि ॥13॥
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत। क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदंति ॥14॥
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगंधवच्च यत्। अनाद्यनंतं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥15॥
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्। उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥16॥
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि। प्रयतः श्राद्धकाले वा तदानंत्याय कल्पते। तदानंत्याय कल्पत इति ॥17॥
കഠോപനിഷദ് - അധ്യായ 1, വൡ 3 - ഒരു പരിചയം
This section of the Katha Upanishad (chapter 1, valli 3) gives the famous image of the chariot. The Self is the rider, the body the chariot, the intellect the charioteer, the mind the reins, the senses the horses and the objects of sense their roads; one whose mind is uncontrolled is like a driver with wild horses, while one with a disciplined mind reaches the goal, the highest abode of Vishnu. It describes the ascent from the senses to the mind, the intellect, the great Self and the unmanifest to the Purusha, beyond which there is nothing, and calls out: "Arise, awake, and learn by approaching the wise; the path is sharp as a razor's edge."
ഉറവിടം: Krishna Yajurveda, Katha Upanishad 1.3
എപ്പോൾ ജപിക്കാം: In Upanishad study and Vedic chanting.
നിങ്ങൾക്കറിയാമോ?
- Verse 14, "Uttishthata jagrata prapya varan nibodhata", was made famous as a call to action by Swami Vivekananda.
- The chariot image of this section is one of the best-known teachings of the Upanishads on self-control.
പതിവ് ചോദ്യങ്ങൾ
What does the chariot stand for?
The body, with the Self as rider and intellect as charioteer.
What does "Uttishthata jagrata" mean?
"Arise, awake".
To what is the path compared?
To the sharp edge of a razor.
ആരാധനയ്ക്കും പഠനത്തിനുമായി നൽകുന്നു, പ്രവചനമായല്ല. വാണിജ്യേതരം.