ശ്രീ ശ്രീനിവാസ വിദ്യാ മംത്രാഃ
Vishnu · പരമ്പരാഗത ഭക്തിഗ്രന്ഥം
शुक्लपक्षे
हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । चं॒द्रां हि॒रण्म॑यीं-लँ॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ श्री.1 ॥ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशांगु॒लम् ॥ पु.1 ॥
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्यं-विँं॒देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ श्री.2 ॥ पुरु॑ष ए॒वेदग्ं सर्वम्᳚ । यद्भू॒तं-यँच्च॒ भव्यम्᳚ । उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति ॥ पु.2 ॥
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् । श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥ श्री.3 ॥ ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः । पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥ पु.3 ॥
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वलं॑तीं तृ॒प्तां त॒र्पयं॑तीम् । प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ श्री.4 ॥ त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ । ततो॒ विष्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥ पु.4 ॥
चं॒द्रां प्र॑भा॒सां-यँ॒शसा॒ ज्वलं॑तीं॒ श्रियं॑-लोँ॒के दे॒वजु॑ष्टामुदा॒राम् । तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां-वृँ॑णे ॥ श्री.5 ॥ तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ पु.5 ॥
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः । तस्य॒ फला॑नि॒ तप॒सा नु॑दंतु मा॒यांत॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥ श्री.6 ॥ यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒सं॒तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ॥ पु.6 ॥
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह । प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥ श्री.7 ॥ स॒प्तास्या॑सन्परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥ पु.7 ॥
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् । अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥ श्री.8 ॥ तं-यँ॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अय॑जंत । सा॒ध्या ऋष॑यश्च॒ ये ॥ पु.8 ॥
गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ श्री.9 ॥ तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । संभृ॑तं पृषदा॒ज्यम् । प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ॥ पु.9 ॥
मन॑सः॒ काम॒माकू॑तिं-वाँ॒चः स॒त्यम॑शीमहि । प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒-यँशः॑ ॥ श्री.10 ॥ तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे । छंदाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥ पु.10 ॥
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ संभ॑व क॒र्दम । श्रियं॑-वाँ॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ श्री.11 ॥ तस्मा॒दश्वा॑ अजायंत । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ॥ पु.11 ॥
आपः॑ सृ॒जंतु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे । नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑-वाँ॒सय॑ मे कु॒ले ॥ श्री.12 ॥ यत्पुरु॑षं॒-व्यँ॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥ पु.12 ॥
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम्। चं॒द्रां हि॒रण्म॑यीं-लँ॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ श्री.13 ॥ ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायत ॥ पु.13 ॥
आ॒र्द्रां-यँः॒ करि॑णीं-यँ॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् । सू॒र्यां हि॒रण्म॑यीं-लँ॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥ श्री.14 ॥ चं॒द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत । मुखा॒दिंद्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥ पु.14 ॥
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्विं॒देयं॒ पुरु॑षान॒हम् ॥ श्री.15 ॥ नाभ्या॑ आसीदं॒तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन्न् ॥ पु.15 ॥
कृष्णपक्षे
स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशांगु॒लम् ॥ पु.1 ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । चं॒द्रां हि॒रण्म॑यीं-लँ॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ श्री.1 ॥
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ । यद्भू॒तं-यँच्च॒ भव्यम्᳚ । उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति ॥ पु.2 ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्यं-विँं॒देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ श्री.2 ॥
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः । पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥ पु.3 ॥ अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् । श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥ श्री.3 ॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ । ततो॒ विष्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥ पु.4 ॥ कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वलं॑तीं तृ॒प्तां त॒र्पयं॑तीम् । प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ श्री.4 ॥
तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ पु.5 ॥ चं॒द्रां प्र॑भा॒सां-यँ॒शसा॒ ज्वलं॑तीं॒ श्रियं॑-लोँ॒के दे॒वजु॑ष्टामुदा॒राम् । तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां-वृँ॑णे ॥ श्री.5 ॥
यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒सं॒तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ॥ पु.6 ॥ आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः । तस्य॒ फला॑नि॒ तप॒सा नु॑दंतु मा॒यांत॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥ श्री.6 ॥
स॒प्तास्या॑सन्परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥ पु.7 ॥ उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह । प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥ श्री.7 ॥
तं-यँ॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अय॑जंत । सा॒ध्या ऋष॑यश्च॒ ये ॥ पु.8 ॥ क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् । अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥ श्री.8 ॥
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । संभृ॑तं पृषदा॒ज्यम् । प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ॥ पु.9 ॥ गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ श्री.9 ॥
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे । छंदाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥ पु.10 ॥ मन॑सः॒ काम॒माकू॑तिं-वाँ॒चः स॒त्यम॑शीमहि । प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒-यँशः॑ ॥ श्री.10 ॥
तस्मा॒दश्वा॑ अजायंत । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ॥ पु.11 ॥ क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ संभ॑व क॒र्दम । श्रियं॑-वाँ॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ श्री.11 ॥
यत्पुरु॑षं॒-व्यँ॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥ पु.12 ॥ आपः॑ सृ॒जंतु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे । नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑-वाँ॒सय॑ मे कु॒ले ॥ श्री.12 ॥
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायत ॥ पु.13 ॥ आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम्। चं॒द्रां हि॒रण्म॑यीं-लँ॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ श्री.13 ॥
चं॒द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत । मुखा॒दिंद्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥ पु.14 ॥ आ॒र्द्रां-यँः॒ करि॑णीं-यँ॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् । सू॒र्यां हि॒रण्म॑यीं-लँ॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥ श्री.14 ॥
नाभ्या॑ आसीदं॒तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन्न् ॥ पु.15 ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्विं॒देयं॒ पुरु॑षान॒हम् ॥ श्री.15 ॥
ശ്രീ ശ്രീനിവാസ വിദ്യാ മംത്രാഃ - ഒരു പരിചയം
The Srinivasa Vidya Mantra weaves two Vedic hymns together: each verse of the Sri Suktam, the hymn to Lakshmi, is followed by a verse of the Purusha Suktam, the hymn to the cosmic Person. Chanted this way, the two are joined as Lakshmi and Narayana are joined in Srinivasa, the Lord of Tirumala.
എപ്പോൾ ജപിക്കാം: On Fridays and Saturdays, in Venkateshwara and Lakshmi Narayana worship, and during abhisheka.
നിങ്ങൾക്കറിയാമോ?
- The verse markers in the text show the alternation: "shree.1" for the Sri Suktam and "pu.1" for the Purusha Suktam, verse by verse.
- Srinivasa means "the abode of Sri (Lakshmi)", since Lakshmi dwells on the Lord's chest.
പതിവ് ചോദ്യങ്ങൾ
Which hymns make up this mantra?
The Sri Suktam and the Purusha Suktam, chanted verse by verse in turn.
Who is Srinivasa?
Lord Venkateshwara of Tirumala, Vishnu with Lakshmi on his chest.
When is it chanted?
In Venkateshwara and Lakshmi Narayana worship, especially on Fridays and Saturdays.
ആരാധനയ്ക്കും പഠനത്തിനുമായി നൽകുന്നു, പ്രവചനമായല്ല. വാണിജ്യേതരം.
കൂടുതൽ ഭക്തിഗ്രന്ഥങ്ങൾ