MuhurtaNow

ശ്രീ വിഷ്ണു ശത നാമ സ്തോത്രമ് (വിഷ്ണു പുരാണ)

Vishnu · പരമ്പരാഗത ഭക്തിഗ്രന്ഥം

॥ श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ॥

वासुदेवं हृषीकेशं वामनं जलशायिनम् । जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ 1 ॥

वाराहं पुंडरीकाक्षं नृसिंहं नरकांतकम् । अव्यक्तं शाश्वतं विष्णुमनंतमजमव्ययम् ॥ 2 ॥

नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनम् । गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥ 3 ॥

वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् । चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ॥ 4 ॥

वैकुंठं दुष्टदमनं भूगर्भं पीतवाससम् । त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदकेश्वरम् ॥ 5 ॥

रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् । श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ॥ 6 ॥

दामोदरं दमोपेतं केशवं केशिसूदनम् । वरेण्यं वरदं विष्णुमानंदं वसुदेवजम् ॥ 7 ॥

हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् । सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ 8 ॥

हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् । मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥ 9 ॥

ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् । सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ॥ 10 ॥

ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् । योगीशं योगनिष्णातं योगिसंयोगरूपिणम् ॥ 11 ॥

ईश्वरं सर्वभूतानां वंदे भूतमयं प्रभुम् । इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥ 12 ॥

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् । यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः ॥ 13 ॥

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् । चांद्रायणसहस्राणि कन्यादानशतानि च ॥ 14 ॥

गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः । अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ॥ 15 ॥

॥ इति श्रीविष्णुपुराणे श्री विष्णु अष्टोत्तर शतनास्तोत्रम् ॥

ശ്രീ വിഷ്ണു ശത നാമ സ്തോത്രമ് (വിഷ്ണു പുരാണ) - ഒരു പരിചയം

A hymn of 108 names of Lord Vishnu in verse, from the Vishnu Purana as its colophon states. It opens "Vasudevam Hrishikesham Vamanam Jalashayinam", Vasudeva, lord of the senses, the dwarf Vamana, who rests on the waters, and goes on through Janardana, Hari, Krishna, he who bears Shrivatsa and has Garuda on his banner, and many more. It is a short alternative to the Vishnu Sahasranama for daily recitation.

ഉറവിടം: Vishnu Purana (per its colophon)

എപ്പോൾ ജപിക്കാം: In daily Vishnu worship, on Ekadashi and Saturdays, and in the month of Kartika.

നിങ്ങൾക്കറിയാമോ?

  • Unlike the namavali form used for archana, this stotra form strings the names together in verses.
  • 108 is the traditional count for a full round of names, as on a japa mala.

പതിവ് ചോദ്യങ്ങൾ

How many names does it give?

108 (ashtottara shata).

Where does it come from?

As its colophon states, the Vishnu Purana.

How does it begin?

With "Vasudevam Hrishikesham Vamanam Jalashayinam".

ആരാധനയ്ക്കും പഠനത്തിനുമായി നൽകുന്നു, പ്രവചനമായല്ല. വാണിജ്യേതരം.