MuhurtaNow

ಸರಸ್ವತೀ ಸ್ತವಂ

Devi · ಸಾಂಪ್ರದಾಯಿಕ ಭಕ್ತಿ ಪಠ್ಯ

याज्ञवल्क्यकृत सरस्वती स्तवम्

याज्ञवल्क्य उवाच

कृपां कुरु जगन्मातर्‌-मामेवं हततेजसम्‌ । गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितम्‌ ॥ 1

ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्य प्रबोधिनीम्‌ । ग्रंथकर्तृत्व शक्तिं च सुशिष्यं सुप्रतिष्ठितम्‌ ॥ 2 ॥

प्रतिभां सत्सभायां च विचारक्षमतां शुभाम्‌ । लुप्तं सर्वं दैव योगा-न्नवीभूतं पुनः कुरु ॥ 3 ॥

यथांकुरं भस्मनि च करोति देवता पुनः । ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ॥ 4 ॥

सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः । विसर्ग बिंदुमात्रासु यदधिष्ठानमेवच ॥ 5 ॥

तदधिष्ठात्री या देवी तस्यै वाण्यै नमो नमः । व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥ 6 ॥

यया विना प्रसंख्यावान् संख्यां कर्तुं न शक्यते । कालसंख्या स्वरूपा या तस्यै देव्यै नमो नमः ॥ 7 ॥

भ्रम सिद्धांतरूपा या तस्यै देव्यै नमो नमः । स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरूपिणी ॥ 8 ॥

प्रतिभाकल्पनाशक्तिर्‌-या च तस्यै नमोनमः । सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ 9 ॥

बभूव मूकवत्सोस्पि सिद्धांतं कर्तु मक्षमः । तदाष्जगाम भगवा-नात्मा श्रीकृष्ण ईश्वरः ॥ 10 ॥

उवाच

स च तां स्तौहि वाणी मिष्टां प्रजापते । स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ 11

चकार तत्प्रसादेन तदा सिद्धांत मुत्तमम्‌ । यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ॥ 12 ॥

बभूव मूकवत्सोस्पि सिद्धांतं कर्तु मक्षमः । तदा तां च स तुष्टाव संत्रस्तः कश्यपाज्ञया ॥ 13 ॥

तत श्चकार सिद्धांतं निर्मलं भ्रम भंजनम्‌ । व्यासः पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा ॥ 14 ॥

मौनीभूत श्च सस्मार तामेव जगदंबिकाम्‌ । तदा चकार सिद्धांतं तद्वरेण मुनीश्वरः ॥ 15 ॥

संप्राप्य निर्मलं ज्ञानं भ्रमांध्य ध्वंसदीपकम्‌ । पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ॥ 16 ॥

तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे । तदा त्वत्तो वरं प्राप्य सत्कवींद्रो बभूव ह ॥ 17 ॥

तदा वेदविभागं च पुराणं च चकार सः । यदा महेंद्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम्‌ ॥ 18 ॥

क्षणं तामेव संचिंत्य तस्मै ज्ञानं ददौ विभुः । पप्रच्छ शब्दशास्त्रं च महेंद्र श्च बृहस्पतिम्‌ ॥ 19 ॥

दिव्य वर्ष सहस्रं च स त्वां दध्यौ च पुष्करे । तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम्‌ ॥ 20 ॥

उवाच

शब्द शास्त्रं च तदर्थं च सुरेश्वरम्‌ । अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ 21

ते च तां परिसंचित्य प्रवर्तंते सुरेश्वरीम्‌ । त्वं संस्तुता पूजिता च मुनींद्रै र्मनु मानवैः ॥ 22 ॥

दैत्येंद्रै श्च सुरैश्चापि ब्रह्म विष्णुशिवादिभिः । जडीभूत स्सहस्रास्यः पंचवक्त्र श्चतुर्मुखः ॥ 23 ॥

यां स्तोतुं कि महं स्तौमि तामेकास्येन मानवः । इत्युक्त्वा याज्ञवल्क्य श्च भक्तिनम्रात्म कंधरः ॥ 24 ॥

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः । ज्योतीरूपा महामाया तेन दृष्टा7प्युवाच तम्‌ ॥ 25 ॥

सुकवींद्रो भवेत्युक्त्वा वैकुंठं च जगाम ह । याज्ञवल्क्य कृतं वाणी स्तोत्रमेतत्तु यः पठेत्‌ ॥ 26 ॥

स कवींद्रो महावाग्मी बृहस्पतिसमो भवेत्‌ । महा मूर्खश्च दुर्बुद्धिर्‌-वर्षमेकं यदा पठेत्‌ । स पंडितश्च मेधावी सुकवींद्रो भवेद्ध्रुवम्‌ ॥ 27 ॥

इति श्री देवी भागवते महापुराणे नवमस्कंधे सरस्वतीस्तवं नाम पंचमोध्यायः । सरस्वती कटाक्ष सिद्धिरस्तु ।

इदं मयाकृतं पारायणं श्रीसद्गुरु चरणारविंदार्पणमस्तु ।

ಸರಸ್ವತೀ ಸ್ತವಂ ಬಗ್ಗೆ

ಈ ಸರಸ್ವತೀ ಸ್ತವ ಯಾಜ್ಞವಲ್ಕ್ಯ ಮಹರ್ಷಿ ಸರಸ್ವತೀ ದೇವಿಗೆ ಮಾಡಿದ ಪ್ರಾರ್ಥನೆ. "ಕೃಪಾಂ ಕುರು ಜಗನ್ಮಾತಃ" ಎಂದು ಆರಂಭ: ಜಗನ್ಮಾತೆ, ತೇಜಸ್ಸು ಕಳೆದುಕೊಂಡ, ಗುರುಶಾಪದಿಂದ ಸ್ಮೃತಿ ಕಳೆದುಕೊಂಡ, ವಿದ್ಯಾಹೀನ, ದುಃಖಿತನಾದ ನನಗೆ ಕೃಪೆ ಮಾಡು. ಸರಸ್ವತಿಯನ್ನು ಜ್ಞಾನ, ಸ್ಮೃತಿ, ವಾಕ್, ಶಾಸ್ತ್ರಗಳ ಬೆಳಕು ಎಂದು ಸ್ತುತಿಸಿ ತನ್ನ ವಿದ್ಯೆಯನ್ನು ಮರಳಿಸು ಎಂದು ಯಾಜ್ಞವಲ್ಕ್ಯರು ಕೇಳುತ್ತಾರೆ.

ಯಾವಾಗ ಪಠಿಸಬೇಕು: ವಸಂತ ಪಂಚಮಿ ಮತ್ತು ಸರಸ್ವತೀ ಪೂಜೆಯಂದು, ಓದು ಮತ್ತು ಪರೀಕ್ಷೆಗಳ ಮುನ್ನ, ಮತ್ತು ಮರೆತ ವಿದ್ಯೆಯನ್ನು ಮರಳಿ ಪಡೆಯಲು ಬಯಸುವವರು.

ನಿಮಗೆ ಗೊತ್ತೇ?

  • ಜಗಳದ ನಂತರ ಯಾಜ್ಞವಲ್ಕ್ಯರು ಯಜುರ್ವೇದವನ್ನು ಗುರು ವೈಶಂಪಾಯನರಿಗೆ ಮರಳಿಸಿ ವಿದ್ಯೆ ಕಳೆದುಕೊಂಡರು, ನಂತರ ಸೂರ್ಯನಿಂದ ಶುಕ್ಲಯಜುರ್ವೇದ ಪಡೆದರು ಎನ್ನುತ್ತದೆ ಸಂಪ್ರದಾಯ.
  • ಇದನ್ನು ಯಾಜ್ಞವಲ್ಕ್ಯಕೃತ ಸರಸ್ವತೀ ಸ್ತೋತ್ರ ಎಂದೂ ಕರೆಯುತ್ತಾರೆ.

ಪದೇ ಪದೇ ಕೇಳುವ ಪ್ರಶ್ನೆಗಳು

ಈ ಸ್ತೋತ್ರ ಹಾಡಿದವರು ಯಾರು?

ಯಾಜ್ಞವಲ್ಕ್ಯ ಮಹರ್ಷಿ.

ಅವರು ಸರಸ್ವತಿಯನ್ನು ಏಕೆ ಪ್ರಾರ್ಥಿಸಿದರು?

ಗುರುಶಾಪದಿಂದ ಅವರ ವಿದ್ಯೆ ಕಳೆದುಹೋಗಿತ್ತು.

ಇದನ್ನು ಯಾವಾಗ ಪಠಿಸುತ್ತಾರೆ?

ವಸಂತ ಪಂಚಮಿಯಂದು ಮತ್ತು ಓದಿನ ಮುನ್ನ.

ಆರಾಧನೆ ಮತ್ತು ಅಧ್ಯಯನಕ್ಕಾಗಿ ನೀಡಲಾಗಿದೆ, ಭವಿಷ್ಯವಾಣಿಯಾಗಿ ಅಲ್ಲ. ವಾಣಿಜ್ಯೇತರ.