ಶ್ರೀ ಗಾಯತ್ರೀ ಹೃದಯಂ
Devi · ಸಾಂಪ್ರದಾಯಿಕ ಭಕ್ತಿ ಪಠ್ಯ
नारद उवाच
भगवन् देवदेवेश भूतभव्यजगत्प्रभो । कवचं च श्रुतं दिव्यं गायत्रीमंत्रविग्रहम् ॥ 1
अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् । यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम् ॥ 2 ॥
श्रीनारायण उवाच
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् । तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ 3
विराड्रूपां महादेवीं गायत्रीं वेदमातरम् । ध्यात्वा तस्यास्त्वथांगेषु ध्यायेदेताश्च देवताः ॥ 4 ॥
पिंडब्रह्मंडयोरैक्याद्भावयेत्स्वतनौ तथा । देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ 5 ॥
नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः । ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ 6 ॥
अथ तत्संप्रवक्ष्यामि तन्मयत्वमथो भवेत् । गायत्रीहृदयस्याऽस्याऽप्यहमेव ऋषिः स्मृतः ॥ 7 ॥
गायत्रीछंद उद्दिष्टं देवता परमेश्वरी । पूर्वोक्तेन प्रकारेण कुर्यादंगानि षट्क्रमात् । आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ 8 ॥
अथार्थन्यासः । द्यौमूर्ध्नि दैवतम् । दंतपंक्तावश्विनौ । उभे संध्ये चौष्ठौ । मुखमग्निः । जिह्वा सरस्वती । ग्रीवायां तु बृहस्पतिः । स्तनयोर्वसवोऽष्टौ । बाह्वोर्मरुतः । हृदये पर्जन्यः । आकाशमुदरम् । नाभावंतरिक्षम् । कट्योरिंद्राग्नी । जघने विज्ञानघनः प्रजापतिः । कैलासमलये ऊरू । विश्वेदेवा जान्वोः । जंघायां कौशिकः । गुह्यमयने । ऊरू पितरः । पादौ पृथिवी । वनस्पतयोऽंगुलीषु । ऋषयो रोमाणि । नखानि मुहूर्तानि । अस्थिषु ग्रहाः । असृङ्मांसमृतवः ॥ संवत्सरा वै निमिषम् । अहोरात्रावादित्यश्चंद्रमाः । प्रवरां दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ॥
ॐ तत्सवितुर्वरेण्याय नमः । ॐ तत्पूर्वाजयाय नमः । तत्प्रातरादित्याय नमः । तत्प्रातरादित्यप्रतिष्ठायै नमः ॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । सायं प्रातरधीयानो अपापो भवति । सर्वतीर्थेषु स्नातो भवति । सर्वैर्देवैर्ज्ञातो भवति । अवाच्यवचनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति । अभोज्यभोजनात्पूतो भवति । अचोष्यचोषणात्पूतो भवति । असाध्यसाधनात्पूतो भवति । दुष्प्रतिग्रहशतसहस्रात्पूतो भवति । सर्वप्रतिग्रहात्पूतो भवति । पंक्तिदूषणात्पूतो भवति । अनृतवचनात्पूतो भवति । अथाऽब्रह्मचारी ब्रह्मचारी भवती । अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति । षष्टिशतसहस्रगायत्र्या जप्यानि फलानि भवंति । अष्टौ ब्राह्मणान् सम्यग्ग्राहयेत् । तस्य सिद्धिर्भवति । य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यत इति । ब्रह्मलोके महीयते ॥
इत्याह भगवान् श्रीनारायणः ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे श्री गायत्री हृदयं नाम चतुर्थोऽध्यायः ॥
ಶ್ರೀ ಗಾಯತ್ರೀ ಹೃದಯಂ ಬಗ್ಗೆ
ಗಾಯತ್ರೀಹೃದಯ, "ಗಾಯತ್ರಿಯ ಹೃದಯ", ದೇವೀಭಾಗವತದ ಸ್ತೋತ್ರ; ಗಾಯತ್ರೀಕವಚ ಕೇಳಿದ ನಾರದ, ಧರಿಸಿದರೆ ಗಾಯತ್ರೀಜಪದ ಪೂರ್ಣ ಪುಣ್ಯ ನೀಡುವ ಪರಮ ಗಾಯತ್ರೀಹೃದಯವನ್ನು ನಾರಾಯಣನಿಂದ ಕೇಳುತ್ತಾನೆ. ನಾರಾಯಣ ಗಾಯತ್ರೀದೇವಿಯ ವಿಶ್ವರೂಪವನ್ನು ವರ್ಣಿಸಿ, ಅವಳ ದೇಹಾಂಗಗಳಲ್ಲಿ ದೇವತೆಗಳು, ವೇದಗಳು, ಲೋಕಗಳನ್ನು ಇರಿಸಿ, ಅವಳ ಉಪಾಸನೆಯ ನ್ಯಾಸ ಮತ್ತು ಧ್ಯಾನವನ್ನು ನೀಡುತ್ತಾನೆ.
ಮೂಲ: ಕೊನೆಯ ಸಾಲಿನಲ್ಲಿ ಹೇಳಿರುವಂತೆ ದೇವೀಭಾಗವತ ಪುರಾಣ, ೧೨ನೇ ಸ್ಕಂಧ
ಯಾವಾಗ ಪಠಿಸಬೇಕು: ಗಾಯತ್ರೀಜಪದ ಮುನ್ನ, ಸಂಧ್ಯೋಪಾಸನೆಯಲ್ಲಿ, ಮತ್ತು ಗಾಯತ್ರೀ ಜಯಂತಿಯಂದು.
ನಿಮಗೆ ಗೊತ್ತೇ?
- ಇದರ ಕೊನೆಯ ಸಾಲು ಇದನ್ನು ದೇವೀಭಾಗವತ ಪುರಾಣದ ಹನ್ನೆರಡನೇ ಸ್ಕಂಧದ ೪ನೇ ಅಧ್ಯಾಯದಲ್ಲಿ ಇರಿಸುತ್ತದೆ.
- ಇದು ನಾರದ ಈಗ ತಾನೇ ಕೇಳಿದೆ ಎನ್ನುವ, ಅದೇ ಪುರಾಣದ ಗಾಯತ್ರೀಕವಚದ ನಂತರ ಬರುತ್ತದೆ.
ಪದೇ ಪದೇ ಕೇಳುವ ಪ್ರಶ್ನೆಗಳು
ಗಾಯತ್ರೀಹೃದಯವನ್ನು ಉಪದೇಶಿಸುವವರು ಯಾರು?
ನಾರದ ಮುನಿಗೆ ಶ್ರೀಮನ್ನಾರಾಯಣ.
ಇದು ಎಲ್ಲಿದೆ?
ದೇವೀಭಾಗವತ ಪುರಾಣ, ಹನ್ನೆರಡನೇ ಸ್ಕಂಧ, ೪ನೇ ಅಧ್ಯಾಯ.
ಇದನ್ನು ಯಾವಾಗ ಪಠಿಸುತ್ತಾರೆ?
ಗಾಯತ್ರೀಜಪದ ಮುನ್ನ ಮತ್ತು ಗಾಯತ್ರೀ ಜಯಂತಿಯಂದು.
ಆರಾಧನೆ ಮತ್ತು ಅಧ್ಯಯನಕ್ಕಾಗಿ ನೀಡಲಾಗಿದೆ, ಭವಿಷ್ಯವಾಣಿಯಾಗಿ ಅಲ್ಲ. ವಾಣಿಜ್ಯೇತರ.
ಇನ್ನಷ್ಟು ಭಕ್ತಿ ಪಠ್ಯಗಳು