ശ്രീ വിഷ്ണു പംജര സ്തോത്രമ്
Vishnu · പരമ്പരാഗത ഭക്തിഗ്രന്ഥം
ॐ अस्य श्रीविष्णुपंजरस्तोत्र महामंत्रस्य नारद ऋषिः । अनुष्टुप् छंदः । श्रीविष्णुः परमात्मा देवता । अहं बीजम् । सोहं शक्तिः । ॐ ह्रीं कीलकम् । मम सर्वदेहरक्षणार्थं जपे विनियोगः ।
नारद ऋषये नमः मुखे । श्रीविष्णुपरमात्मदेवतायै नमः हृदये । अहं बीजं गुह्ये । सोहं शक्तिः पादयोः । ॐ ह्रीं कीलकं पादाग्रे । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति मंत्रः ।
ॐ ह्रां अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ।
ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायै वषट् । ॐ ह्रैं कवचाय हुम् । ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् । इति अंगन्यासः ।
अहं बीजं प्राणायामं मंत्रत्रयेण कुर्यात् ।
ध्यानम् । परं परस्मात्प्रकृतेरनादिमेकं निविष्टं बहुधा गुहायाम् । सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम् ॥ 1 ॥
ॐ विष्णुपंजरकं दिव्यं सर्वदुष्टनिवारणम् । उग्रतेजो महावीर्यं सर्वशत्रुनिकृंतनम् ॥ 2 ॥
त्रिपुरं दहमानस्य हरस्य ब्रह्मणो हितम् । तदहं संप्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥ 3 ॥
पादौ रक्षतु गोविंदो जंघे चैव त्रिविक्रमः । ऊरू मे केशवः पातु कटिं चैव जनार्दनः ॥ 4 ॥
नाभिं चैवाच्युतः पातु गुह्यं चैव तु वामनः । उदरं पद्मनाभश्च पृष्ठं चैव तु माधवः ॥ 5 ॥
वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदनः । बाहू वै वासुदेवश्च हृदि दामोदरस्तथा ॥ 6 ॥
कंठं रक्षतु वाराहः कृष्णश्च मुखमंडलम् । माधवः कर्णमूले तु हृषीकेशश्च नासिके ॥ 7 ॥
नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वजः । कपोलौ केशवो रक्षेद्वैकुंठः सर्वतोदिशम् ॥ 8 ॥
श्रीवत्सांकश्च सर्वेषामंगानां रक्षको भवेत् । पूर्वस्यां पुंडरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ 9 ॥
दक्षिणे नारसिंहश्च नैरृत्यां माधवोऽवतु । पुरुषोत्तमो वारुण्यां वायव्यां च जनार्दनः ॥ 10 ॥
गदाधरस्तु कौबेर्यामीशान्यां पातु केशवः । आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ 11 ॥
सन्नद्धः सर्वगात्रेषु प्रविष्टो विष्णुपंजरः । विष्णुपंजरविष्टोऽहं विचरामि महीतले ॥ 12 ॥
राजद्वारेऽपथे घोरे संग्रामे शत्रुसंकटे । नदीषु च रणे चैव चोरव्याघ्रभयेषु च ॥ 13 ॥
डाकिनीप्रेतभूतेषु भयं तस्य न जायते । रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ 14 ॥
रक्षंतु देवताः सर्वा ब्रह्मविष्णुमहेश्वराः । जले रक्षतु वाराहः स्थले रक्षतु वामनः ॥ 15 ॥
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चंद्रमाः ॥ 16 ॥
पंथानं दुर्गमं रक्षेत्सर्वमेव जनार्दनः । रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः ॥ 17 ॥
स्त्रीहंता बालघाती च सुरापो वृषलीपतिः । मुच्यते सर्वपापेभ्यो यः पठेन्नात्र संशयः ॥ 18 ॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ 19 ॥
आपदो हरते नित्यं विष्णुस्तोत्रार्थसंपदा । यस्त्विदं पठते स्तोत्रं विष्णुपंजरमुत्तमम् ॥ 20 ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति । गोसहस्रफलं तस्य वाजपेयशतस्य च ॥ 21 ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः । सर्वकामं लभेदस्य पठनान्नात्र संशयः ॥ 22 ॥
जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ 23 ॥
इति श्रीब्रह्मांडपुराणे इंद्रनारदसंवादे श्रीविष्णुपंजरस्तोत्रम् ॥
ശ്രീ വിഷ്ണു പംജര സ്തോത്രമ് - ഒരു പരിചയം
The Vishnu Panjara Stotram, the "cage" or shield of Vishnu, is a protective prayer. After the formal opening that names Narada as its seer, with nyasa and a meditation on Vishnu as the one Lord dwelling in every heart, its verses ask Vishnu's forms to guard each part of the body: Govinda the feet, Trivikrama the shins, Keshava the thighs, Janardana the waist, and so on. As its colophon states, it is from the Brahmanda Purana, in a dialogue of Indra and Narada.
ഉറവിടം: Brahmanda Purana, Indra and Narada dialogue (per its colophon)
എപ്പോൾ ജപിക്കാം: In daily prayer for protection, before travel, and in Vishnu worship.
നിങ്ങൾക്കറിയാമോ?
- A panjara stotra surrounds the devotee with the deity's names like a protective cage, much as a kavacha does.
- Each limb is given to a different name of Vishnu, from the twelve names (dvadasha nama) and others.
പതിവ് ചോദ്യങ്ങൾ
What does "panjara" mean?
A cage, here a protective enclosure of the Lord's names.
Where does it come from?
As its colophon states, the Brahmanda Purana, in a dialogue of Indra and Narada.
Who is its seer?
The sage Narada, as its opening states.
ആരാധനയ്ക്കും പഠനത്തിനുമായി നൽകുന്നു, പ്രവചനമായല്ല. വാണിജ്യേതരം.
കൂടുതൽ ഭക്തിഗ്രന്ഥങ്ങൾ