MuhurtaNow

చాణక్య నీతి - త్రయోదశోఽధ్యాయః

Chanakya Neethi · సాంప్రదాయ భక్తి గ్రంథం

मुहूर्तमपि जीवेच्च नरः शुक्लेन कर्मणा । न कल्पमपि कष्टेन लोकद्वयविरोधिना ॥ 01 ॥

गते शोको न कर्तव्यो भविष्यं नैव चिंतयेत् । वर्तमानेन कालेन वर्तयंति विचक्षणाः ॥ 02 ॥

स्वभावेन हि तुष्यंति देवाः सत्पुरुषाः पिता । ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पंडिताः ॥ 03 ॥

आयुः कर्म च वित्तं च विद्या निधनमेव च । पंचैतानि हि सृज्यंते गर्भस्थस्यैव देहिनः ॥ 04 (4.1) ॥

अहो बत विचित्राणि चरितानि महात्मनाम् । लक्ष्मीं तृणाय मन्यंते तद्भारेण नमंति च ॥ 05 ॥

यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत् सुखम् ॥ 06 ॥

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ 07 ॥

राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तंते यथा राजा तथा प्रजाः ॥ 08 ॥

जीवंतं मृतवन्मन्ये देहिनं धर्मवर्जितम् । मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः ॥ 09 ॥

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ 10 ॥

दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गंतुं ततो निंडां प्रकुर्वते ॥ 11 ॥

बंधाय विषयासंगो मुक्त्यै निर्विषयं मनः । मन एव मनुष्याणां कारणं बंधमोक्षयोः ॥ 12 ॥

देहाभिमाने गलितं ज्ञानेन परमात्मनि । यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ 13 ॥

ईप्सितं मनसः सर्वं कस्य संपद्यते सुखम् । दैवायत्तं यतः सर्वं तस्मात्संतोषमाश्रयेत् ॥ 14 ॥

यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् । तथा यच्च कृतं कर्म कर्तारमनुगच्छति ॥ 15 ॥

अनवस्थितकार्यस्य न जने न वने सुखम् । जनो दहति संसर्गाद्वनं संगविवर्जनात् ॥ 16 ॥

खनित्वा हि खनित्रेण भूतले वारि विंदति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ 17 ॥

कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधियश्चार्या सुविचार्यैव कुर्वते ॥ 18 ॥

एकाक्षरप्रदातारं यो गुरुं नाभिवंदते । श्वानयोनिशतं गत्वा चांडालेष्वभिजायते ॥ 19 ॥

युगांते प्रचलेन्मेरुः कल्पांते सप्त सागराः । साधवः प्रतिपन्नार्थान्न चलंति कदाचन ॥ 20 ॥

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखंडेषु रत्नसंज्ञा विधीयते ॥ 21 ॥

చాణక్య నీతి - త్రయోదశోఽధ్యాయః గురించి

This is the thirteenth chapter of the Chanakya Niti, maxims traditionally attributed to Chanakya (Kautilya). It opens: it is better to live even a moment with pure deeds than an age with deeds harmful to both this world and the next. Its second verse is well known: do not grieve over the past, do not worry about the future; the wise live in the present. It ends with the verse that there are three true jewels on earth, water, food and good words, while fools give the name of jewels to pieces of stone.

రచయిత: Traditionally attributed to Chanakya (Kautilya)

ఎప్పుడు పఠించాలి: In reading and study of practical wisdom (niti), and in talks on conduct.

మీకు తెలుసా?

  • Verse 2, "Gate shoko na kartavyo", is often quoted as timeless advice to live in the present.
  • The last verse, on the three jewels of water, food and good speech, is a favourite in schools.

తరచుగా అడిగే ప్రశ్నలు

What does verse 2 advise?

Do not grieve the past or worry about the future; live in the present.

What are the three jewels on earth?

Water, food and good words.

Who is it attributed to?

Traditionally to Chanakya.

ఆరాధన, అధ్యయనం కోసం అందించబడింది, జోస్యంగా కాదు. వాణిజ్యేతరం.